विसर्ग-विषये

(1) हेमलता श्रीधर (2013/10/19) –

विसर्ग-विषये कृपया मम संदेहं निवारयतु।

नि:स्पृह: अस्मिन् शब्दे विसर्गस्य विवरणं किम्?

( यदि उपसर्ग: निर् चेत् निर्स्पृह: वा निस् चेत् निस्स्पृह: ??)

विसर्गात् परे तु क ख प फ भवति चेत् विसर्ग: तिष्ठति किल, तर्हि अत्र..?

पुनः विसर्गात् परे खर् वर्ण: अस्ति चेत् सकार: भवति किल ?

हेमा

(2) S. L. Abhyankar अभ्यंकरकुलोत्पन्नः श्रीपादः –

भवत्या अस्ति पृष्टं “यदि उपसर्ग: निर् चेत् निर्स्पृह: वा निस् चेत् निस्स्पृह: ?” | दृश्यते भवती मन्यते निर् च निस् च इति द्वौ उपसर्गौ |

मन्मतेन उपसर्गः “निः” इत्येव मन्तव्यः | तथैव दुः इत्यपि उपसर्गः विसर्गान्तः |

  1. दुःख-शब्दे सः तिष्ठति |

  2. दुर्गति-निर्गमन-शब्दयोः तस्य रेफः |

  3. दुश्चरित-निश्चय-शब्दयोः श्-कारः |

  4. दुस्सह-निस्स्पृह-शब्दयोः स्-कारः |

  5. दुष्कर-निष्कास-शब्दयोः ष्-कारः |

रेफः, श्-कारः, स्-कारः, ष्-कारः इमे विसर्गस्य आदेशाः, परवर्णानुसारेण | आदेशानां विविधाः नियमाः |

(3) हेमलता श्रीधर –

रेफ: स् कार: : श् कार: ष् कार: इमे विसर्गस्य आदेशानां सत्यमेव, किन्तु

गीतायां षष्ठे अध्याये १८th श्लोके नि:स्पृह: इति अस्ति – विसर्ग: किमर्थं तिष्ठति ?

should it have been निस्स्पृह: ?

(4) S. L. Abhyankar अभ्यंकरकुलोत्पन्नः श्रीपादः –

मम विचारेण लिप्याः कार्यमस्ति, उच्चारणस्य यथासम्यक् लेखनम् | तेनैव, वेदानां संहितासु उदात्त-प्लुत-इत्येषां उच्चारणचिह्नान्यपि भवन्ति |

उच्चारः तु निस्स्पृहस्सर्वकामेभ्येा एवमेव भवति खलु ? अतः मन्मतेन तु एवं लेखनमेव साधु |

2 thoughts on “विसर्ग-विषये

  1. मम विचारेण लिप्याः कार्यमस्ति, उच्चारणस्य यथासम्यक् लेखनम् | तेनैव, वेदानां संहितासु उदात्त-प्लुत-इत्येषां उच्चारणचिह्नान्यपि भवन्ति |

    नि:स्पृह: इति अस्ति – विसर्ग: किमर्थं तिष्ठति ?

    should it have been निस्स्पृह: ।

    पाणिनिमते,”वा शरि ८।३।३६। इति विसर्जनीयस्य विसर्जनीयादेशो वा भवति शरि परे। वृक्षः शेते, वृक्षश्शेते वृक्षः षण्डे, वृक्षष्षण्डे। वृक्षः साये, वृक्षस्साये।
    “खर्परे शरि वा लोपो वक्तव्यः।” इति वार्तिकेन विसर्गस्य लोपे वृक्षा स्थातारः, वृक्षाः स्थातारः, वृक्षास्स्थातारः। एवं च, निर्+स्पृहः इत्यत्र, सकारस्य शकाररूपखर्परत्वात्

    विसर्जनीयस्य विसर्गादेशे, न पुनरादेशविसर्गस्य सत्वम्। निःस्पृहः। इति,
    वार्तिकेन विसर्गलोपे, निस्पृहः इति,
    विसर्ग-लोपयोरादेशाभावपक्षे, विसर्गस्य सकारादेशे, निस्स्पृहः इति सकारद्वयसहितं रूप्मिति त्रीणि रूपाणि।,

  2. पाणिनिमते, तु —

    निस् निर् दुस् दुर् इति सान्तः रेफान्तश्च।
    १. उपपसर्गस्यायतौ इति उपसर्गस्थस्य रेफस्य लत्वं विधीयते। रेफान्तस्य उपसर्गस्य लत्वे निलयते दुलयते इति भवति।
    सान्तस्य तु निरयते दुरयते इति रूपम्।
    तत्र रुत्वस्य असिद्धत्वात् लत्वं न भवति।

    २. सुदुरोरधिकरणे इति रेफान्तादेव डः। दुसः रेफस्य असिद्धत्वात् तस्मात् डः न भवति। तस्मात् डप्रत्ययेऽपि रूपं सिद्ध्यतीत्यन्यदेतत्।
    एवमन्यत्रापि रान्तग्रहणे न सान्तस्य ग्रहणम्।

    ३.निरभ्योः पूल्वोः इत्यत्र विनिगमकाभावादुभयोर्ग्रहणम्।
    ४. दुरः षत्वणत्वयोः इत्यत्र तु दुस्दुरोः उभयोरपि ग्रहणं वक्तव्यम्। षत्वणत्वयोः ससजुषो रुः इति रुत्वस्य सिद्धत्वात्।
    दुर्नयः दुर्भवानि इत्यादौ रेफस्य श्रवणेऽपि दुःस्थितिः इत्यादौ तदभावात्। सुदुरोः प्रतिषेधे इति वार्तिके (१.२.५९) कैयटेन “न च दुसमादाय णत्वं दुर्वारं, कृतरोर्दुसोऽप्यत्रानुकरणेन तस्यापि निषेधात्” इत्युक्तम्।

    इति सान्तरान्तग्रहणे प्रयोजनम्।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s