ज्योतिर्विज्ञानम् – ४

कालगणनायै सौरपद्धतिः वा चान्द्रपद्धतिः प्रयुज्यते | Timekeeping systems are solar or lunar.

सौरपद्धत्यां दिनारंभः मध्यरात्रौ भवति | मध्यरात्रिवेलायाः वैज्ञानिकं निश्चितीकरणं तु प्रायः अशक्यमेव | मध्याह्नसमयस्य निश्चितीकरणं कतिचित्तु वैज्ञानिकं कस्यापि वस्तोः छायायाः अवलोकनेन | तथापि कथं भवेत् मध्यरात्रिवेलायाः वैज्ञानिकं निश्चितीकरणम् ? In solar timekeeping new day begins at midnight, which has no scientific definition. Noon time can be decided by observing shadow of any object. How can one decide the time of midnight ?

भारतीयां चान्द्रपद्धत्यां दिनारंभः सूर्योदये भवति यः सर्वैरनुभूयते दृश्यते च | In Indian lunar timekeeping day starts at sunrise, which is seen and experienced by everybody.

सौरपद्धत्यां कस्मिन् मासे कतिदिनानि तस्यापि न किमपि विज्ञानम् | In solar timekeeping, there is no scientific basis by which one can say that certain month should have so many days.

भारतीयां चान्द्रपद्धत्यां प्रत्येकस्मिन् मासे द्वे पक्षे, शुक्लपक्षः कृष्णपक्षश्च | शुक्लपक्षे प्रतिपदातः पूर्णिमापर्यन्ताः पञ्चदश तिथयः | कृष्णपक्षेऽपि प्रतिपदातः अमावस्यापर्यन्ताः पञ्चदश तिथयः | प्रत्येका तिथिरिति चन्द्रस्य कला | एतेषां सर्वेषां प्रत्यक्षं दर्शनं शक्यम् | In Indian lunar timekeeping there are two fortnights in each month. In the first fortnight moon waxes from its first phase to full moon. In the second fortnight the moon wanes from its phase of little less than full moon day to no moon day. All these phenomena can be seen and experienced.

 

तिथीनां कल्पनाचित्रम् तिथीनां कल्पनाचित्रम्

सौरपद्धत्यां मासानां नाम्नामपि न किमपि विज्ञानम् | Names of months in solar system have no scientific basis.

भारतीयां चान्द्रपद्धत्यां मासानां नामानि नक्षत्रैः सह संबद्धानि | मासनामसु अपि विज्ञानमेव | In Indian lunar system, names of months are associated with names of constellations. So there is scientific basis even in names of months.

चैत्रमासस्य नाम्नि चित्रानक्षत्रस्य उल्लेखः, वैशाखमासस्य नाम्नि विशाखानक्षत्रस्य उल्लेखः, ज्येष्ठमासस्य नाम्नि ज्येष्ठानक्षत्रस्य उल्लेखः, आषाढमासस्य नाम्नि आषाढानक्षत्रस्य उल्लेखः, श्रावणमासस्य नाम्नि श्रवणनक्षत्रस्य उल्लेखः, भाद्रपदमासस्य नाम्नि पूर्वाभाद्रपदानक्षत्रस्य उल्लेखः, अश्विनमासस्य नाम्नि अश्विनीनक्षत्रस्य उल्लेखः, कार्तिकमासस्य नाम्नि कृत्तिकानक्षत्रस्य उल्लेखः, मार्गशीर्षमासस्य नाम्नि मृगनक्षत्रस्य उल्लेखः, पौषमासस्य नाम्नि पुष्यनक्षत्रस्य उल्लेखः, माघमासस्य नाम्नि मघानक्षत्रस्य उल्लेखः | तथापि फाल्गुनमासस्य नाम्नि न कस्यापि नक्षत्रस्य उल्लेखः | अयं प्रायः कश्चिदपवादः |

(Note – This paragraph is not translated into English.)

तथाप्यस्त्यत्र किञ्चित् कुतूहलम् | यदि वर्षारंभः सूर्यस्य मेषराशिप्रवेशे मेषराश्यां तु अश्विनी-भरणी-कृत्तिका-नक्षत्राणां चरणानि | तेन कथं ननु मासस्य नाम चैत्रमासः इति ? ज्ञायते यत् चैत्रमासे पूर्णिमायां चन्द्रः चित्रानक्षत्रे, अतः मासस्य नाम चैत्रमासः इति | But there is some curiosity. If New Year begins when Sun enters the zodiac Aries, this zodiac sign has 9 quarters from those of constellations अश्विनी, भरणी and कृत्तिका. How come then the name of the month is चैत्र ? I am told that in चैत्र-month, on the full moon day, the moon is in constellation चित्रा.

एवं तु भारते चान्द्रमासस्य द्वे पद्धती | एका नवेन्द्वारंभा वा अमान्ता वा शुक्लादि, अन्या पूर्णिमान्ता | There are two kinds of Lunar months followed in India – one beginning with the New Moon (i.e. shuklAdi system or ending with no moon, hence also called as the amAnta system) and the other, Full Moon-ending (covering one Full Moon to the next) called the PurnimAnta system.

उपरि सर्वत्र मया “भारतीयां चान्द्रपद्धत्यां”-इति उल्लेखः कृतः, यतः अरबस्थाने वा इस्लामधर्मीयाणामपि चान्द्रपद्धतिरेव | I have mentioned above the phrase “Indian lunar” system, since in Arabic regions or among followers of Islam also, the system is lunar.

भारतीयां चान्द्रपद्धत्यां वर्षारंभः सूर्यस्य मेषराशिप्रवेशे भवति | वर्षं संवत् इत्यपि कथ्यते विशेषतः विक्रमराजानुसार्यां कालगणनायाम् | विक्रमसंवतः वर्षारंभः कार्तिकमासारंभे भवति | In Indian lunar system New Year begins when Sun enters the Aries zodiac sign. A year is also called as संवत्, especially by people who started counting of years owing regards to King Vikram. New year of विक्रमसंवत् begins with the beginning of month of कार्तिक.

विक्रमसंवतः संख्या प्रायः ख्रिस्ताब्दात् षट्पञ्चाशत्तावदधिका | Counting of विक्रमसंवत् is approximately 56 years older than the AD counting of Christian era.

यः वर्षारंभः सूर्यस्य मेषराशिप्रवेशे तथा चैत्रमासारंभे भवति, तद्वर्षं शकेत्यपि कथ्यते | महाराष्ट्रे शकसंख्या प्रायः शालिवाहननृपानुसारी | सा ख्रिस्ताब्दात् प्रायः अष्टसप्ततितावन्न्यूना | A year which begins with entry of sun in Aries zodiac sign or begins with the beginning of the month of चैत्र, is also called as शक. In महाराष्ट्र, count of शक-years started owing regards to King शालिवाहन. This count is some 78 years less than the AD counting of Christian era.

अरबस्थाने या चान्द्रपद्धतिः तस्यां वर्षं हिजरीति नाम्ना उच्यते | हिजरी-वर्षारंभः प्रायः विक्रमसंवद्वर्षारंभसमानः एव | तथापि हिजरी-वर्षसंख्या ख्रिस्ताब्दात् नवसप्तत्यधिकपञ्चशत-(579)-तावन्न्यूना | A year in the lunar system in Arabic regions is called as हिजरी-year. हिजरी-New Year begins almost simultaneous with विक्रमसंवत्. However the count of हिजरी years is approximately 579 years more recent than the AD counting of Christian era.

भारतीयां चान्द्रपद्धत्यां केवलं तिथयः चन्द्रमवलोक्य गण्यन्ते, In the Indian lunar system only the तिथि-s are based on the observation of the moon.

दिवसः तु एकस्मात् सूर्योदयात् अन्यतमसूर्योदयपर्यन्तः, वर्षमपि सूर्यस्य एकस्मात् मेषराशिप्रवेशादारभ्य अन्यतममेषराशिप्रवेशपर्यन्तमेव | One day is however from one sunrise to the next sunrise. Count of one year is also from one entry of sun into Aries zodiac to the next.

चन्द्रः पृथिवीं परतः तस्य एकं परिभ्रमणं सप्तविंशतिपरतः द्वित्रिंशद्दिवसशतांशेषु (27.32 days) संप्राप्नोति | The Moon completes its orbit around the Earth in approximately 27.32 days (a sidereal month)

एकस्मान्नवेन्दुतः अन्यतमनवेन्दुपर्यन्तः त्रिंशत्तिथीनां कालः चान्द्रमासः | सः त्रिंशद्दिवसानां नैव | Time from one new moon to the next, across thirty phases is the lunar month. One lunar month does not become 30 days long.

तेन चन्द्रस्य त्रिंशत्तिथयः सप्तविंशतिपरतः द्वित्रिंशद्दिवसशतांशेषु (27.32 days = 27.32 * 24 = 655.68 hours) संपद्यन्ते | एका तिथिः 655.68 / 30 = 21.856 hours एतावति समये एव | Thus the 30 phases of the moon are completed in 655.68 hours, hence each phase has a duration of 21.865 hours.

उदाहरणार्थम् – यद्यपि सूर्योदयसमये एकादशी तिथिः भवति, परन्तु सूर्योदयस्य पश्चात् 24 – 21.856 = 2.144 hours एतावतः समयस्य पूर्वमेव द्वादशी तिथिः आरभते, तर्हि अन्यस्मिन् सूर्योदये तु त्रयोदशी तिथिरेव भवेत् | For example, even if at time of sunrise the moon has its eleventh phase, but if the twelfth phase begins in less than 2.144 hours after sunrise, at the time of next sunrise, it will be the thirteenth phase only.

पञ्चाङ्गे अमुकस्य दिवसस्य सैव तिथिः निर्दिश्यते, यस्याः सूर्योदयसमये गणनं भवति | In the ephemeris only that phase is mentioned as the phase of the day, which is phase of the moon at sunrise.

एकस्मिन् सौरमासे, त्रिंशत् सूर्योदयेषु कासामपि तिथीनां उल्लेखः नैव भवेत् | ताः तिथयः क्षयतिथयः | उपरिनिर्दिष्टे उदाहरणे द्वादशी तिथिः क्षयतिथिः | So, during one solar month of 30 sunrises there would be no mention in the ephemeris about some phases. Such phases are called as क्षयतिथि-s.

यद्यपि उपरि लिखितं, यत् “एका तिथिः 655.68 / 30 = 21.856 hours एतावति समये एव”, सर्वाः तिथयः सदैव न समानाः | अस्ति  http://web4me.co.in/?author=1&lang=nl&paged=2&pg=1, इत्यत्र उक्तं यत् तिथीनां कालावधयः एकोनविंशतितः चतुस्त्रिंशत्तावताम् घटीनां एवं विभिन्नाः भवन्ति | Although it was mentioned above that one तिथि becomes 655.68 / 30 = 21.856 hours on an average, as mentioned at http://web4me.co.in/?author=1&lang=nl&paged=2&pg=1, duration of all तिथि-s is not same. It varies from 19 hours to 24 hours.

त्रिंशत्तिथीनां द्वादशावृत्तिभिः चान्द्रवर्षं भवति | Twelve cycles of 30 तिथि-s becomes one lunar year.

सौरवर्षस्य गणने तु पृथिव्याः सूर्यं परितः एकस्य परिभ्रमणस्य कालस्यैव विचारः | अत्याधुनिकविज्ञानानुसारेण सः समयः 365.256363004 days एतावान् | Solar year considers one year as the time taken by earth to do one revolution around the sun. As per modern science one solar year is of 365.256363004 days.

इदमपि उक्तं  http://web4me.co.in/?author=1&lang=nl&paged=2&pg=1, इत्यत्र, यत् चान्द्रवर्षं सौरवर्षतः ११ दिवसैः ऊनं भवति | It is also mentioned at this link, that lunar year is shorter than solar year by about 11 days,

चान्द्रवर्षगणनायां प्रत्येकस्मिन् तृतीये वर्षे अधिकमासोऽपि गण्यते | The lunar system also considers an extra month during every third year.

एवं चान्द्रवर्षत्रयं सौरवर्षत्रयेण कतितमं समं भवति | By this a triplet of lunar years becomes fairly equivalent to a triplet of solar years.

कालगणनयोः सौरचान्द्रपद्धत्योः एतेन विवरणेन स्पष्टं यत् कस्मिन्नपि सौरवर्षानुसारिणे दिनाङ्के चान्द्रवर्षानुसारी का तिथिः, कः पक्षः, कः मासः, किं संवत्सरम् एतत्सर्वं केनचित् क्लिष्टेन गणितेनैव साध्यम् | From the above discussion of the lunar and solar methods of timekeeping, it should be clear that, on what date of solar calendar, what will be the तिथि, पक्ष, मास, and संवत्सर of lunar calendar can be derived only by some complex calculation.

तथापि पञ्चाङ्गकर्तारः जानन्ति तद्गणितम् | However, people who prepare ephemeris are well-versed with that mathematics.

प्रथमं तु पञ्चाङ्गमिति किम् ? कानि पञ्चाङ्गस्य पञ्च अङ्गानि ? कथं तेषां ज्योतिर्विज्ञाने उपयोजनम् ? तदध्ययनम् अग्रिमे भागे | First of all, what is an ephemeris ? which five details does it detail ? what is the relevance of the five details in ज्योतिर्विज्ञान ? Study of these shall be the next.

-o-O-o-

 

Advertisements

One thought on “ज्योतिर्विज्ञानम् – ४

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s