ज्योतिर्विज्ञानम् – ५

किमिति पञ्चाङ्गम् ? What is an ephemeris ?

(Ref. कुण्डलीचे गणित by ज्योतिर्विद्या संशोधन मंडळ, नाशिक, 2003)

 

पञ्चाङ्गमिति दिनदर्शिका एव |

पञ्चाङ्गम् is actually a calendar.

 

दिनदर्शिकायां वर्षाङ्क-मास-दिनाङ्क-वासराणां विवरणं प्राप्यते |

In a calendar we get details of year, month, date and day of the week.

 

पञ्चाङ्गे पञ्च अङ्गानि तिथिः, वासरः, नक्षत्रम् योगश्च करणं च |

In a पञ्चाङ्गम् one gets five details for each day – तिथि, वासर, नक्षत्र, योग and करण.

 

सौरकालगणनायां यथा दिनाङ्कः तथैव चान्द्रकालगणनायां तिथिः |

तिथि in lunar calendar is similar to date in solar calendar.

 

http://en.wikipedia.org/wiki/Hindu_calendar इत्यत्र निर्दिष्टम्, यद्भारतीया कालगणनापद्धतिः प्रथमतः ख्रिस्ताब्दस्य नातिपूर्वे काले लगधस्य वेदाङ्गज्योतिषे उपवेदे विवृता | सा सूर्यसिद्धान्ते कतिचित् प्रमाणिता | आर्यभट्टेण (499 ख्रिस्ताब्दे) वराहमिहिरेण (षष्ठे ख्रिस्तशतके) द्वितीयेन भास्कराचार्येण (द्वादशे ख्रिस्तशतके) संशोधिता च |

Most of the Hindu calendars are inherited from a system first enunciated in Vedāṅga Jyotiṣa of Lagadha, a late BC adjunct to the Veda-s, standardized in the Sūrya Siddhānta (3rd century) and subsequently reformed by astronomers such as Āryabhaṭa (AD 499), Varāhamihira (6th century), and Bhāskara II (12th century).

 

पञ्चाङ्गे एकस्मिन् पृष्ठे एकस्य पक्षस्य अतः पञ्चदशदिनानां विवरणानि | प्रत्येकस्य दिनस्य का तिथिः, कः वासरः, किं नक्षत्रं, कः योगः किं करणम् एतानि च कानिचित् अन्यान्यपि विवरणानि च यथाधः |

A typical page in a पञ्चाङ्ग, as shown below, gives details as below for 15 days, i.e. for one पक्ष. It details for every day, not only the five elements of a पञ्चाङ्ग, i.e. तिथि, वासर (day of the week), नक्षत्र योग and करण, but also some more relevant details, especially the specialty of the day.

 

अमुक-शके, अमुक-अयने, अमुक-ऋतौ, अमुक-मासे, अमुकपक्षे

तिथिः

वासरः

नक्षत्रम्

योगः

करणम्

दिनाङ्कः

सूर्योदय-समयः  

सूर्यास्त-समयः  

दिन-मानम्

दिन-विशेषाः

 

प्रत्येकस्य दिवसस्य सर्वाणि विवरणानि यथा सूर्योदये तावन्ति |

Most of the above details are mentioned for every day, as at sunrise.

१. तिथिः

 

तिथ्याः विषये कतिचिद्विवेचनं पूर्वमपि प्रस्तुतम् |

There has been some discussion about तिथि-s already.

तथापि सौरकालगणनायां एकस्मिन् मासे २८/२९, ३०, ३१ दिनाङ्काः भवन्ति, तिथयः तु त्रिंशदेव भवन्ति |

But whereas in solar calendar there are 28/29, 30 or 31 days in a month, तिथि-s are thirty only.

 

सौरकालगणनायां प्रत्येकः दिवसः चतुर्विंशति “hour”-परिमाणानाम् भवति | नवीनः दिनाङ्कः मध्यरात्रौ आरभते च |

In solar calendar, a day is of 24 hours and date changes at midnight.

 

तथापि चान्द्रकालगणनायां सर्वासां तिथीनां कालः समानः न |

However, in lunar calendar, all तिथि-s are not of same duration.

 

पृथिव्याः स्वपरितस्य परिभ्रमणस्य वेगः कार्तिकतः माघमासेषु कतिचिदधिकः भवति | आषाढे सः वेगः न्यूनतमः |

Speed of earth’s rotation about itself is somewhat faster in months from कार्तिक to माघ.In आषाढ it is slowest.

तेन सर्वाः तिथयः षष्टिघटिकाणां न | काश्चन चतुःषष्टि-पञ्चषष्टिघटिकानां काश्चन षट्पञ्चाशतां सप्तपञ्चाशतां घटिकानामपि |

तिथि is not always of 60 घटिका-s, being sometimes of 64-65 घटिका-s, and being sometimes of 56-57 घटिका-s.

moon's revolving around earth

षष्टिघटिकानां तिथिस्तु माध्या | तेन माध्यम् अहोरात्रम् षष्टिघटिकानाम् |

60 घटिका-s is the average measure of a तिथि. Average तिथि of 60 घटिका-s is also one average day-night of 24 hours.

 

आपटे-महाभागस्य शब्दकोषेऽपि एकायाः घटिकायाः अर्थः चतुर्विंशति “मिनिट”-परिमाणानां समयः इति |

n Apte’s dictionary also घटिका is mentioned as a measure of time equal to 24 minutes. Sixty times twenty-four minutes becomes 24 hours.

 

तिथेः अन्यापि व्याख्या | सूर्यचन्द्रयोर्मध्ये अन्तरं द्वादश अंशैः वर्धितुं यः समयः सः तिथिवान् | प्रत्येकस्य मासस्य अमावस्यां तिथौ सूर्यचन्द्रौ एकस्यामेव राश्यां तिष्ठन्ति | तेनैव सा अमावस्या भवति |

There is also another definition of a तिथि. One तिथि is the time required for angle between sun and moon to increase by 12 degrees. Every month, on no moon day, sun and moon are seen in the same zodiac sign. That is why there is no moon.

एकस्मिन् मासे पञ्चदशतिथीनां द्वे पक्षे स्तः शुक्लपक्षः कृष्णपक्षश्च | कृष्णपक्षस्य वद्यपक्षः इत्यपि अन्यन्नाम |

मास in a panchAngam has two fortnights (pakSha-s) of 15 तिथि-s each. They are called as शुक्लपक्ष and कृष्णपक्ष. कृष्णपक्ष is also called as वद्यपक्ष.

 

शुक्लपक्षे चन्द्रस्य कला प्रतिदिनं वर्धते | यस्यां चन्द्रः संपूर्णः दृश्यते सैव पूर्णिमा वा पौर्णिमा तिथिः |

In the first pakSha, the phases of the moon keep waxing from first phase to full moon. Full moon day is called as पूर्णिमा.

 

कृष्णपक्षे चन्द्रस्य कला प्रतिदिनं क्षीणा भवति | यस्यां तिथौ चन्द्रः अदर्शनीयः भवति सैव अमावस्या तिथिः |

In the second pakSha, the phases of the moon keep waning across 15 तिथि-s to no moon. The no moon तिथि is called as अमावस्या.

 

मासानां गणनायाः द्वे पद्धती | एकस्यां पद्धत्यां मासस्य आरम्भः शुक्लपक्षारम्भे भवति | अन्यस्यां पद्धत्यां मासस्य आरम्भः कृष्णपक्षारम्भे भवति |

There are two systems of naming and counting months. In one system month starts at the beginning of शुक्लपक्षः In another system, month starts at the beginning of कृष्णपक्ष

 

उभयोः पक्षयोः प्रथमातः चतुर्दश-पर्यन्तानां तिथीनां नामानि प्रथमा (प्रतिपदा वा), द्वितीया, तृतीया, चतुर्थी, पञ्चमी, षष्ठी, सप्तमी, अष्टमी, नवमी, दशमी, एकादशी, द्वादशी, त्रयोदशी, चतुर्दशी एतावतानि | शुक्लपक्षान्ते पञ्चदशी तिथिः पूर्णिमा, कृष्णपक्षान्ते पञ्चदशी तिथिः अमावस्या |

तिथि-s from first to fourteenth in both शुक्लपक्ष and कृष्णपक्ष have similar names,  प्रथमा (प्रतिपदा वा), द्वितीया, तृतीया, चतुर्थी, पञ्चमी, षष्ठी, सप्तमी, अष्टमी, नवमी, दशमी, एकादशी, द्वादशी, त्रयोदशी, चतुर्दशी. The 15th तिथि-s are पूर्णिमा and अमावस्या.

 

यदि तिथेः कालः षष्टिघटिकाभ्योऽप्यधिकः कदाचिद्द्वयोः सूर्योदयोः सैव तिथिः, सा वृद्धातिथिः भवति |

When duration of a तिथि is longer than 60 घटिका-s, sometimes same तिथि sees two sunrises. Such तिथि is called as वृद्धातिथि.

 

यदि तिथेः कालः षष्टिघटिकाभ्यः न्यूनः, तथा तिथिः सूर्योदयादनन्तरं कतिचित्समये एव आरभते, तद्विधा काचित् तिथिः न कस्मिन्नपि सूर्योदये | सा क्षयतिथिः |

Some तिथि of duration less than 60 घटिका-s and starts just a little after sunrise and ends before next sunrise, such तिथि is called as क्षयतिथि.

 

तिथीनां पञ्च वर्गाः यथाधः –

तिथि-s are grouped in five groups –

  1. नन्दतिथयः – तिथि-s of नन्द group – 1, 6, 11
  2. भद्रतिथयः – तिथि-s of भद्र group  – 2, 7, 12
  3. जयतिथयः – 3, 8, 13
  4. रिक्ततिथयः – 4, 9, 14
  5. पूर्णतिथयः – 5 (शुक्लपञ्चमी), 10 (शुक्लदशमी), 15 (पौर्णिमा), 20 (कृष्णपञ्चमी), 25 (कृष्णदशमी)

 

तिथीनां वर्गाणां नामानि प्रायः तिथिफलं दर्शयन्ति, यथा नन्दतिथयः आनन्ददायिन्यः, भद्रतिथीनां भद्रं फलम्, जयतिथयः जयदायिन्यः, रिक्ततिथयः निष्फलाः | एते तु फलज्योतिषस्य संकेताः |

Names of groups of तिथि-s possibly connote the astrological influence of तिथि-s. For example तिथि-s of नन्द group connote happy times, तिथि-s of भद्र group connote benevolence, तिथि-s of जय group connote victory or overcoming obstacles, settlement of lingering issues, etc. तिथि-s of रिक्त group connote ‘no result or outcome’.

एकस्मिन् वर्षे विविधानां तिथीनां कानि वैशिष्ट्यानि एतद्विषये किमपि सङ्कलनं मया कृतमासीत् | तस्मै किञ्चित् परिशिष्टं योग्यं भवेत् |

I had compiled specialties of different days of a year. It would be better to put that compilation in an Annex.

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s