खगोलविज्ञानम् (१)

It is well-known that in Sanskrit literature, there is a whole lot of information available on various subjects. People have been coming out with information, such as Pythagoras’ theorem was expounded centuries before him by Bodhayana.

I think it is important to bring forth together SUBJECT-WISE all knowledge available in various subjects, including knowledge available in Sanskrit literature. This will save the scientists around the world from “reinventing the wheel”. People doing research have to present “literature survey” as an essential first step, to establish that one is not “reinventing the wheel”.  But I do not know of any literature survey taking cognizance of information available in Sanskrit literature. That must happen.

Wikipedia has facilitated great amount of information. It has some 10,000+ pages in Sanskrit also. That number can be much larger. Much more number of pages are in fact available at http://sanskritdocuments.org/ More importantly, the information should be classified and searchable SUBJECT-WISE. I guess, it is difficult to systematically SEARCH information, available in Sanskrit on every other subject such as Astronomy, Astrology, Mathematics, Aeronautics, Ayurveda, etc., etc. I would like to be corrected, if my guess is wrong.

Here below is an attempt to put forth in Sanskrit what concepts I could compile on the subject of Astronomy. Of course this is a very miniscule, small part, hence mentioning this as Part 1.

More importantly, I have not put in references i.e. which information is available in which Sanskrit literature. I should, quote those references. But I do not know them. I earnestly solicit inputs and guidance.

I am starting with information on Astronomy खगोलविज्ञानम् . I guess much of the information on Astronomy should be available in गोलाध्यायः by भास्कराचार्यः and maybe, also in भृगुसंहिता.

With information and inputs flowing in, I may start a separate blog on Astronomy. Here is what thoughts I have on Astronomy.

 

खगोलविज्ञानम् (१)

 

खे नैकः एव सूर्यः | गीतायां भगवता उक्तम् – “दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता यदि भाः ..” | सूर्यः एका तारका | तारकाः स्वयंप्रकाशिताः सन्ति | कदाचिद्वयं आकाशे आकाशगङ्गां पश्यामः | तस्याः दर्शनं किञ्चित् सूर्यसहस्रस्यैव दर्शनम् |

 

प्रत्येकस्य सूर्यस्य ग्रहमाला अपि भवति | तेन प्रत्येकस्य सूर्यस्य काचित् सूर्यमालिका | प्रत्येकायां सूर्यमालिकायां तत्रस्थितः सूर्यः तस्य परितः भ्रमन्तः ग्रहाश्च | यतः सूर्याः अनेके तेन अनेकाः सूर्यमालिकाः | खगोलविज्ञानाभ्यासे तासां सर्वासां अभ्यासः करणीयः |

 

प्रत्येकस्यां सूर्यमालिकायां स्थिताः ग्रहाः तस्मात् सूर्यात् प्रकाशं लभन्ते | ग्रहाणां स्वीयः प्रकाशः न भवति |

 

प्रत्येका सूर्यमालिका बहुविस्तृता भवति | खे ये अन्तराः भवन्ति तेषां मापनाय खपरिमाणं (AU = Astronomical Unit) प्रयुज्यते | खपरिमाणस्य एककम् सार्धशतदशलक्षकिलोमीटरतावदस्ति (1 AU = 150,000,000 km) |

 

अस्मत्सूर्यमालिका

 

अस्माकं पृथिवी यस्याः सूर्यमालिकायाः ग्रहः, सा सूर्यमालिका 70 AU-तावद्विस्तृता अस्ति |

Distances from Sun

पृथिवी सूर्यात् 1 AU-तावद्दूरे अस्ति | पृथिवीगोलस्य व्यासः 12756 km-तावत् | स्पष्टं यत् सूर्यमालिकायां पृथिव्याः आकारः नगण्यः एव |

 

यथोक्तम्, सूर्यमालिकायां सूर्यश्च तस्य परितः भ्रमन्तः ग्रहाश्च | सूर्यस्य परितः भ्रमन्तानां ग्रहाणामपि उपग्रहाः भवन्ति | ते चन्द्राः इति कथ्यन्ते | चन्द्रा अपि ग्रहाणां सह सूर्यस्य परितः भ्रमन्ति |

पृथिवी यं सूर्यं परिभ्रमति, तस्यां सूर्यमालिकायां बुध-शुक्र-पृथिवी-मङ्गल-गुरु-शनि-युरेनस्(हर्षल)-नेप्च्यून्-प्लूटो-इति ग्रहाः सन्ति | तेषु –

 

  • बुध-शुक्र-पृथिवी-मङ्गल-ग्रहाः अन्तर्ग्रहाः भूगोलाः सन्ति, यतः तेषु भूमिरस्ति |
  • गुरु-शनि-हर्षल-नेप्च्यून्-ग्रहाः बाह्यग्रहाः वायुगोलाः सन्ति |
  • प्लूटवादयः नेप्च्यून-परतः ग्रहाः हिमगोलाः सन्ति |

Solar System

प्रत्येकस्य ग्रहस्य सूर्यस्य परितः परिभ्रमणस्य निश्चितः कालावधिः अस्ति | प्रत्येकस्य परिभ्रमणमार्गः अपि निश्चितः अस्ति | सः प्रायः वर्तुलाकारः वा कतिचिद्दीर्घवर्तुलाकारः भवति | ग्रहस्य भ्रमणमार्गस्य परिमितिं तथा एकस्य परिभ्रमणस्य कालावधिं ज्ञात्वा ग्रहस्य भ्रमणगतिः अपि ज्ञायते एव | सामान्यतः ज्ञातेषु बुध-शुक्र-पृथिवी-मङ्गल-गुरु-शनि-एतेषु शनिग्रहस्य गतिः मन्दतमा | अतः सः “शनैः चरति इति” शनैश्चरः एवं ज्ञायते | प्रायः यावद्दूरे कश्चिद्ग्रहः सूर्यतः, तावदधिकः तस्य एकस्य परिभ्रमणस्य कालावधिः |

 

ग्रहाणां सूर्यतः अन्तराणि निम्नमिव –

 

अनु. ग्रहः सूर्यादन्तरम् दशलक्षकिलोमीटराणि परिभ्रमणसमयः पृथिवीदिनानाम् परिभ्रमणसमयः
बुधः ५८.८८ ५८ ८८ पृथिवीदिनानि
शुक्रः १०७.५२ २२५ २२५ पृथिवीदिनानि
पृथिवी १४८.८ ३६५.२५२४ ३६५.२५२४ पृथिवीदिनानि
मङ्गलः २२६.५६ ६८५ ६८५ पृथिवीदिनानि
गुरुः ७७३.७६ ४३७० १२ पृथिवीवर्षाणि
शनिः १४१८.४ १०५८५ २९ पृथिवीवर्षाणि
हर्षलः २८५३.९२ ३०६६० ८४ पृथिवीवर्षाणि
नेप्च्यून् ४४७२.३२ ६०२२५ १६५ पृथिवीवर्षाणि
प्लूटो ५८७२.१६

केषामपि वैज्ञानिकानां मतेन यद्यपि ग्रहाः सूर्यं परिभ्रमन्ति, तथापि तेषां भ्रमणमार्गाणां एकः एव केन्द्रबिन्दुः एवं न |

 

सर्वेषां ग्रहाणां भ्रमणवर्तुलानि सतलान्यपि न भवन्ति |

 

तथापि एकस्य परिभ्रमणस्य 360 अंशाः भवन्ति | त्रिंशदंशानां विभागः राशिः इति कथ्यते | मेष-वृषभ-मिथुन-कर्क-सिंह-कन्या-तुला-वृश्चिक-धनु-मकर-कुंभ-मीन-इति राशीणां द्वादश नामानि |

 

पृथिवीगोले विषुववृत्तं मध्यमम् अक्षवृत्तम् | विषुववृत्ततः उत्तरदक्षिणध्रुवयोः प्रत्येकस्मिन् गोलार्धे ९० अक्षवृत्तानि कल्प्यन्ते |

 

उत्तरदक्षिणध्रुवयोः अक्षः पृथिव्याः सूर्यपरिभ्रमणवृत्ततः २३.५ अंशतावत् अभिनतः भवति | उत्तरगोलार्धे २३.५ अंशे यदक्षवृत्तं तत्कर्कवृत्तम् | तथैव दक्षिणगोलार्धे २३.५ अंशे यदक्षवृत्तं तन्मकरवृत्तम् |

उत्तरदक्षिणध्रुवयोः यः अक्षः तं अक्षीकृत्यापि पृथिवी भ्रमति | एतद् भ्रमणम् पूर्वदिशः पश्चिमदिशं प्रति भवति | पृथिव्याः अस्य एकस्य भ्रमणस्य कालः दिनं वा दिवसः वा वासरः इति कथ्यते | एकस्मात् सूर्योदयादारभ्य परसूर्योदयपर्यन्तः कालः दिवसः इति व्याख्या समीचीना न | यतः स्थानस्य अक्षवृत्तानुसारेण एषः कालः भिन्नः भवति | ध्रुवप्रदेशेषु सः कालः षण्मासतावत् अतिदीर्घः अपि भवति |

 

येषु स्थानेषु एकस्मिन् दिवसे सूर्यप्रकाशः रात्रिश्च भवति तत्र यावत्काले सूर्यप्रकाशः भवति तत् अहः | सूर्यास्तात् परसूर्योदयपर्यन्तः कालः रात्रिः | अहोरात्री मिलित्वापि एकः दिवसः इति कथ्यते | तथापि एकस्य दिवसस्य या व्याख्या उपरि निर्दिष्टा सैव समीचीना, यतः तस्यां एकस्य दिवसस्य कतिसमयः अस्मिन् विषये स्थानान्तरेण कालभिन्नता न भवति |

 

पृथिव्याः चन्द्रः पृथिवीं परिभ्रमति | तस्य मार्गः अपि वर्तुलाकारः अस्ति | पृथिवीतः चन्द्रावलोकने चन्द्रस्य आकारः प्रतिदिनं भिन्नः दृश्यते | प्रत्येकः आकारः कला वा तिथिः इति कथ्यते |

 

चन्द्रस्य आकारः द्वयोः पक्षयोः चीयते अपचीयते च | यस्मिन् पक्षे आकारः चीयते सः शुक्लपक्षः | यस्मिन् पक्षे आकारः अपचीयते सः कृष्णपक्षः | शुक्लपक्षस्य अन्तिमे दिने चन्द्रः पूर्णवर्तुलाकारः दृश्यते | सा पूर्णिमा तिथिः | कृष्णपक्षस्य अन्तिमे दिने चन्द्रः नैव दृश्यते | सा अमावस्या तिथिः | प्रत्येकस्य पक्षस्य आरम्भः प्रतिपदया तिथ्या भवति | शुक्लप्रतिपदायाः आरभ्य अमावास्यान्तपर्यन्तः कालः मासः इति कथ्यते |

 

चैत्र–वैशाख-ज्येष्ठ-आषाढ-श्रावण-भाद्रपद-अश्विन-कार्तिक-मार्गशीर्ष-पौष-माघ-फाल्गुनेति द्वादशमासाः |

 

मासद्वयस्य कालः ऋतुः इति कथ्यते | चैत्रवैशाखयोः वसन्तः, ज्येष्ठ-आषाढयोः ग्रीष्मः श्रावणभाद्रपदयोः वर्षाऋतुः अश्विनकार्तिकयोः शरदृतुः मार्गशीर्षपौषयोः हेमन्तः माघफाल्गुनयोः शिशिरः |

 

द्वादशमासानां कालः वर्षं वा संवत्सरः इति कथ्यते | संवत्सराणां षष्टिः नामानि सन्ति | तानि क्रमशः पुनर्वर्तन्ते |

 

पृथिव्याः चन्द्रस्य च भ्रमणवर्तुले सतले न भवन्ति | यदा ते वर्तुले परस्परं छेदयतः तदा ग्रहणं भवति | ग्रहणं द्विविधं भवति |

  • यदि भ्रमणवर्तुलयोः छेदने चन्द्रः पृथिवीसूर्ययोः मध्ये आगच्छति तदा पृथिवीतः सूर्यस्य दर्शनं खण्डशः ग्रस्तं वा पूर्णग्रस्तं वा भवति | तदेव सूर्यग्रहणम् | सूर्यग्रहणे भ्रमणवर्तुलयोः छेदबिन्दुः केतुः इति कथ्यते |
  • यदि भ्रमणवर्तुलयोः छेदने पृथिवी सूर्यचन्द्रयोर्मध्ये भवति तर्हि पृथिवीतः चन्द्रस्य दर्शनं खण्डशः ग्रस्तं वा पूर्णग्रस्तं वा भवति | तदेव चन्द्रग्रहणम् | चन्द्रग्रहणे भ्रमणवर्तुलयोः छेदबिन्दुः राहुः इति कथ्यते |
  • राहुकेतू ग्रहौ न | तौ केवलौ छेदबिन्दू |

 

सूर्यग्रहमालायां धूमकेतवः अपि भवन्ति | तेषां मार्गाणां गतीनां च सर्वथैव अनिश्चितता |

-o-O-o-

Advertisements