भारतीय-पञ्चाङ्गे तिथिमाहात्म्यानि

Significance of Dates in Traditional Indian Calendar

भारतीय-पञ्चाङ्गे तिथिमाहात्म्यानि

अनुक्रमाङ्कः ऋतुः मासः पक्षः तिथिः तिथिमाहात्म्यम्
वसंत चैत्र शुद्ध / शुक्ल १ प्रतिपदा गुढी पाडवा नूतनवर्षारम्भः, पूर्णमुहूर्तः
४ चतुर्थी संकष्टचतुर्थी
९ नवमी श्रीरामनवमी
११ एकादशी कामदा-एकादशी
१५ पौर्णिमा श्रीहनुमानजयंती
वसंत चैत्र वद्य / कृष्ण ११ एकादशी वरुथिनी-एकादशी
ग्रीष्म वैशाख शुद्ध / शुक्ल ३ तृतीया अक्षय्य-तृतीया, पूर्णमुहूर्तः
४ चतुर्थी संकष्टचतुर्थी
५ पञ्चमी आदिशंकराचार्य-जयंती
१० ११ एकादशी भागवत-एकादशी
११ १५ पौर्णिमा बुद्ध-पौर्णिमा
१२ वद्य / कृष्ण ११ एकादशी अपरा-एकादशी
१३ ग्रीष्म ज्येष्ठ शुद्ध / शुक्ल ४ चतुर्थी संकष्टचतुर्थी
१४ ११ एकादशी निर्जला-एकादशी
१५ १५ पौर्णिमा वट-पौर्णिमा
१६ वद्य / कृष्ण ११ एकादशी योगिनी-एकादशी
१७ वर्षा आषाढ शुद्ध / शुक्ल १ प्रतिपदा कालिदासस्तुतिः
१८ ४ चतुर्थी संकष्टचतुर्थी
१९ ११ एकादशी देवशयनी-एकादशी, पंढरपूरयात्रा
२० १५ पौर्णिमा गुरु-पौर्णिमा, व्यास- जयंति
२१ वद्य / कृष्ण ११ एकादशी कामिका-एकादशी
२२ वर्षा श्रावण शुद्ध / शुक्ल ४ चतुर्थी संकष्टचतुर्थी
२३ ५ पञ्चमी नाग-पञ्चमी
अनुक्रमाङ्कः ऋतुः मासः पक्षः तिथिः तिथिमाहात्म्यम्
२४ वर्षा श्रावण शुद्ध / शुक्ल ५ पञ्चमी नाग-पञ्चमी
२५ ११ एकादशी पुत्रदा-एकादशी
२६ १५ पौर्णिमा रक्षाबन्धनम्
२७ वर्षा श्रावण वद्य / कृष्ण ८ अष्टमी श्रीकृष्णजन्मोत्सवः
२८ ११ एकादशी अजा-एकादशी
२९ शरद भाद्रपद शुद्ध / शुक्ल ३ तृतीया हरितालिका
३० ४ चतुर्थी श्रीगणेशोत्सवारम्भः
३१ ५ पञ्चमी ऋषि-पञ्चमी
३२ ११ एकादशी परिवर्तिनी-एकादशी
३३ १४ चतुर्दशी अनन्त-चतुर्दशी
३४ १५ पौर्णिमा प्रोष्ठपदी-पौर्णिमा
३५ वद्य / कृष्ण १ प्रतिपदा पितृपक्षारंभः
३६ ११ एकादशी भागवत-एकादशी
३७ ३० अमावस्या सर्वपित्री-अमावस्या
३८ शरद अश्विन शुद्ध / शुक्ल १ प्रतिपदा नवरात्रोत्सवारंभः, घट-स्थापना
३९ ४ चतुर्थी संकष्टचतुर्थी
४० ८ अष्टमी दुर्गाष्टमी
४१ ९ नवमी खंडेनवमी
४२ १० दशमी विजयादशमी, पूर्णमुहूर्तः
४३ ११ एकादशी पाशांकुशा-एकादशी
४४ १५ पौर्णिमा कोजागरी-पौर्णिमा
४५ शरद अश्विन वद्य / कृष्ण ११ एकादशी रमा-एकादशी
४६ १२ द्वादशी वसुबारस, दीपोत्सवारंभः
४७ १३ त्रयोदशी धनतेरस

 

अनुक्रमाङ्कः ऋतुः मासः पक्षः तिथिः तिथिमाहात्म्यम्
४८ शरद अश्विन वद्य / कृष्ण १४ चतुर्दशी नरक-चतुर्दशी
४९ ३० अमावस्या लक्ष्मी- पूजनम्
५० हेमंत कार्तिक शुद्ध / शुक्ल १ प्रतिपदा बलि-प्रतिपदा, अर्धमुहूर्तः
५१ २ द्वितीया यम-द्वितीया, भाऊबीज
५२ ४ चतुर्थी संकष्टचतुर्थी
५३ ५ पञ्चमी पाण्डव-पञ्चमी
५४ ११ एकादशी प्रबोधिनी-एकादशी
५५ १२ द्वादशी तुलसी-विवाहः
५६ १५ पौर्णिमा त्रिपुरारि-पौर्णिमा, गुरु-नानक-जयन्ती
५७ हेमंत कार्तिक वद्य / कृष्ण ८ अष्टमी कालाष्टमी
५८ ११ एकादशी उत्पत्ति-एकादशी
५९ हेमंत मार्गशीर्ष शुद्ध / शुक्ल ४ चतुर्थी संकष्टचतुर्थी
६० ६ षष्ठी चंपाषष्ठी
६१ ११ एकादशी मोक्षदा–एकादशी, गीताजयन्ती
६२ १५ पौर्णिमा श्रीदत्तजयन्ती
६३ हेमंत मार्गशीर्ष वद्य / कृष्ण ११ एकादशी सफला-एकादशी
६४ शिशिर पौष शुद्ध / शुक्ल १ प्रतिपदा धनुर्मासारंभः
६५ ४ चतुर्थी संकष्टचतुर्थी
६६ ७ सप्तमी भानुसप्तमी
६७ ??? मकरसंक्रमणम्
६८ ११ एकादशी पुत्रदा-एकादशी
६९ १५ पौर्णिमा शाकम्भरी-पौर्णिमा
७० वद्य / कृष्ण ११ एकादशी षट्-तिला-एकादशी
७१ शिशिर माघ शुद्ध / शुक्ल ४ चतुर्थी विनायकचतुर्थी, गणेशजयन्ती

 

अनुक्रमाङ्कः ऋतुः मासः पक्षः तिथिः तिथिमाहात्म्यम्
७२ शिशिर माघ शुद्ध / शुक्ल ५ पञ्चमी वसन्तपञ्चमी, सरस्वतीपूजनम्
७३ ११ एकादशी जया-एकादशी
७४ १२ द्वादशी भीष्म-द्वादशी
७५ शिशिर माघ वद्य / कृष्ण ९ नवमी श्रीरामदासनवमी
७६ ११ एकादशी विजया-एकादशी
७७ ३० अमावास्या महाशिवरात्रिः
७८ वसंत फाल्गुन शुद्ध / शुक्ल ४ चतुर्थी संकष्टचतुर्थी
७९ ११ एकादशी आमलकी-एकादशी
८० १५ पौर्णिमा हुताशनी-पौर्णिमा, होलिकोत्सवः
८१ वसंत फाल्गुन वद्य / कृष्ण १ प्रतिपदा धूलिवन्दनम्, वसन्तोत्सवारंभः
८२ ५ पञ्चमी रंगपंचमी
८३ ११ एकादशी पापमोचनी-एकादशी
Advertisements

ज्योतिर्विज्ञानम् – ५

किमिति पञ्चाङ्गम् ? What is an ephemeris ?

(Ref. कुण्डलीचे गणित by ज्योतिर्विद्या संशोधन मंडळ, नाशिक, 2003)

 

पञ्चाङ्गमिति दिनदर्शिका एव |

पञ्चाङ्गम् is actually a calendar.

 

दिनदर्शिकायां वर्षाङ्क-मास-दिनाङ्क-वासराणां विवरणं प्राप्यते |

In a calendar we get details of year, month, date and day of the week.

 

पञ्चाङ्गे पञ्च अङ्गानि तिथिः, वासरः, नक्षत्रम् योगश्च करणं च |

In a पञ्चाङ्गम् one gets five details for each day – तिथि, वासर, नक्षत्र, योग and करण.

 

सौरकालगणनायां यथा दिनाङ्कः तथैव चान्द्रकालगणनायां तिथिः |

तिथि in lunar calendar is similar to date in solar calendar.

 

http://en.wikipedia.org/wiki/Hindu_calendar इत्यत्र निर्दिष्टम्, यद्भारतीया कालगणनापद्धतिः प्रथमतः ख्रिस्ताब्दस्य नातिपूर्वे काले लगधस्य वेदाङ्गज्योतिषे उपवेदे विवृता | सा सूर्यसिद्धान्ते कतिचित् प्रमाणिता | आर्यभट्टेण (499 ख्रिस्ताब्दे) वराहमिहिरेण (षष्ठे ख्रिस्तशतके) द्वितीयेन भास्कराचार्येण (द्वादशे ख्रिस्तशतके) संशोधिता च |

Most of the Hindu calendars are inherited from a system first enunciated in Vedāṅga Jyotiṣa of Lagadha, a late BC adjunct to the Veda-s, standardized in the Sūrya Siddhānta (3rd century) and subsequently reformed by astronomers such as Āryabhaṭa (AD 499), Varāhamihira (6th century), and Bhāskara II (12th century).

 

पञ्चाङ्गे एकस्मिन् पृष्ठे एकस्य पक्षस्य अतः पञ्चदशदिनानां विवरणानि | प्रत्येकस्य दिनस्य का तिथिः, कः वासरः, किं नक्षत्रं, कः योगः किं करणम् एतानि च कानिचित् अन्यान्यपि विवरणानि च यथाधः |

A typical page in a पञ्चाङ्ग, as shown below, gives details as below for 15 days, i.e. for one पक्ष. It details for every day, not only the five elements of a पञ्चाङ्ग, i.e. तिथि, वासर (day of the week), नक्षत्र योग and करण, but also some more relevant details, especially the specialty of the day.

 

अमुक-शके, अमुक-अयने, अमुक-ऋतौ, अमुक-मासे, अमुकपक्षे

तिथिः

वासरः

नक्षत्रम्

योगः

करणम्

दिनाङ्कः

सूर्योदय-समयः  

सूर्यास्त-समयः  

दिन-मानम्

दिन-विशेषाः

 

प्रत्येकस्य दिवसस्य सर्वाणि विवरणानि यथा सूर्योदये तावन्ति |

Most of the above details are mentioned for every day, as at sunrise.

१. तिथिः

 

तिथ्याः विषये कतिचिद्विवेचनं पूर्वमपि प्रस्तुतम् |

There has been some discussion about तिथि-s already.

तथापि सौरकालगणनायां एकस्मिन् मासे २८/२९, ३०, ३१ दिनाङ्काः भवन्ति, तिथयः तु त्रिंशदेव भवन्ति |

But whereas in solar calendar there are 28/29, 30 or 31 days in a month, तिथि-s are thirty only.

 

सौरकालगणनायां प्रत्येकः दिवसः चतुर्विंशति “hour”-परिमाणानाम् भवति | नवीनः दिनाङ्कः मध्यरात्रौ आरभते च |

In solar calendar, a day is of 24 hours and date changes at midnight.

 

तथापि चान्द्रकालगणनायां सर्वासां तिथीनां कालः समानः न |

However, in lunar calendar, all तिथि-s are not of same duration.

 

पृथिव्याः स्वपरितस्य परिभ्रमणस्य वेगः कार्तिकतः माघमासेषु कतिचिदधिकः भवति | आषाढे सः वेगः न्यूनतमः |

Speed of earth’s rotation about itself is somewhat faster in months from कार्तिक to माघ.In आषाढ it is slowest.

तेन सर्वाः तिथयः षष्टिघटिकाणां न | काश्चन चतुःषष्टि-पञ्चषष्टिघटिकानां काश्चन षट्पञ्चाशतां सप्तपञ्चाशतां घटिकानामपि |

तिथि is not always of 60 घटिका-s, being sometimes of 64-65 घटिका-s, and being sometimes of 56-57 घटिका-s.

moon's revolving around earth

षष्टिघटिकानां तिथिस्तु माध्या | तेन माध्यम् अहोरात्रम् षष्टिघटिकानाम् |

60 घटिका-s is the average measure of a तिथि. Average तिथि of 60 घटिका-s is also one average day-night of 24 hours.

 

आपटे-महाभागस्य शब्दकोषेऽपि एकायाः घटिकायाः अर्थः चतुर्विंशति “मिनिट”-परिमाणानां समयः इति |

n Apte’s dictionary also घटिका is mentioned as a measure of time equal to 24 minutes. Sixty times twenty-four minutes becomes 24 hours.

 

तिथेः अन्यापि व्याख्या | सूर्यचन्द्रयोर्मध्ये अन्तरं द्वादश अंशैः वर्धितुं यः समयः सः तिथिवान् | प्रत्येकस्य मासस्य अमावस्यां तिथौ सूर्यचन्द्रौ एकस्यामेव राश्यां तिष्ठन्ति | तेनैव सा अमावस्या भवति |

There is also another definition of a तिथि. One तिथि is the time required for angle between sun and moon to increase by 12 degrees. Every month, on no moon day, sun and moon are seen in the same zodiac sign. That is why there is no moon.

एकस्मिन् मासे पञ्चदशतिथीनां द्वे पक्षे स्तः शुक्लपक्षः कृष्णपक्षश्च | कृष्णपक्षस्य वद्यपक्षः इत्यपि अन्यन्नाम |

मास in a panchAngam has two fortnights (pakSha-s) of 15 तिथि-s each. They are called as शुक्लपक्ष and कृष्णपक्ष. कृष्णपक्ष is also called as वद्यपक्ष.

 

शुक्लपक्षे चन्द्रस्य कला प्रतिदिनं वर्धते | यस्यां चन्द्रः संपूर्णः दृश्यते सैव पूर्णिमा वा पौर्णिमा तिथिः |

In the first pakSha, the phases of the moon keep waxing from first phase to full moon. Full moon day is called as पूर्णिमा.

 

कृष्णपक्षे चन्द्रस्य कला प्रतिदिनं क्षीणा भवति | यस्यां तिथौ चन्द्रः अदर्शनीयः भवति सैव अमावस्या तिथिः |

In the second pakSha, the phases of the moon keep waning across 15 तिथि-s to no moon. The no moon तिथि is called as अमावस्या.

 

मासानां गणनायाः द्वे पद्धती | एकस्यां पद्धत्यां मासस्य आरम्भः शुक्लपक्षारम्भे भवति | अन्यस्यां पद्धत्यां मासस्य आरम्भः कृष्णपक्षारम्भे भवति |

There are two systems of naming and counting months. In one system month starts at the beginning of शुक्लपक्षः In another system, month starts at the beginning of कृष्णपक्ष

 

उभयोः पक्षयोः प्रथमातः चतुर्दश-पर्यन्तानां तिथीनां नामानि प्रथमा (प्रतिपदा वा), द्वितीया, तृतीया, चतुर्थी, पञ्चमी, षष्ठी, सप्तमी, अष्टमी, नवमी, दशमी, एकादशी, द्वादशी, त्रयोदशी, चतुर्दशी एतावतानि | शुक्लपक्षान्ते पञ्चदशी तिथिः पूर्णिमा, कृष्णपक्षान्ते पञ्चदशी तिथिः अमावस्या |

तिथि-s from first to fourteenth in both शुक्लपक्ष and कृष्णपक्ष have similar names,  प्रथमा (प्रतिपदा वा), द्वितीया, तृतीया, चतुर्थी, पञ्चमी, षष्ठी, सप्तमी, अष्टमी, नवमी, दशमी, एकादशी, द्वादशी, त्रयोदशी, चतुर्दशी. The 15th तिथि-s are पूर्णिमा and अमावस्या.

 

यदि तिथेः कालः षष्टिघटिकाभ्योऽप्यधिकः कदाचिद्द्वयोः सूर्योदयोः सैव तिथिः, सा वृद्धातिथिः भवति |

When duration of a तिथि is longer than 60 घटिका-s, sometimes same तिथि sees two sunrises. Such तिथि is called as वृद्धातिथि.

 

यदि तिथेः कालः षष्टिघटिकाभ्यः न्यूनः, तथा तिथिः सूर्योदयादनन्तरं कतिचित्समये एव आरभते, तद्विधा काचित् तिथिः न कस्मिन्नपि सूर्योदये | सा क्षयतिथिः |

Some तिथि of duration less than 60 घटिका-s and starts just a little after sunrise and ends before next sunrise, such तिथि is called as क्षयतिथि.

 

तिथीनां पञ्च वर्गाः यथाधः –

तिथि-s are grouped in five groups –

  1. नन्दतिथयः – तिथि-s of नन्द group – 1, 6, 11
  2. भद्रतिथयः – तिथि-s of भद्र group  – 2, 7, 12
  3. जयतिथयः – 3, 8, 13
  4. रिक्ततिथयः – 4, 9, 14
  5. पूर्णतिथयः – 5 (शुक्लपञ्चमी), 10 (शुक्लदशमी), 15 (पौर्णिमा), 20 (कृष्णपञ्चमी), 25 (कृष्णदशमी)

 

तिथीनां वर्गाणां नामानि प्रायः तिथिफलं दर्शयन्ति, यथा नन्दतिथयः आनन्ददायिन्यः, भद्रतिथीनां भद्रं फलम्, जयतिथयः जयदायिन्यः, रिक्ततिथयः निष्फलाः | एते तु फलज्योतिषस्य संकेताः |

Names of groups of तिथि-s possibly connote the astrological influence of तिथि-s. For example तिथि-s of नन्द group connote happy times, तिथि-s of भद्र group connote benevolence, तिथि-s of जय group connote victory or overcoming obstacles, settlement of lingering issues, etc. तिथि-s of रिक्त group connote ‘no result or outcome’.

एकस्मिन् वर्षे विविधानां तिथीनां कानि वैशिष्ट्यानि एतद्विषये किमपि सङ्कलनं मया कृतमासीत् | तस्मै किञ्चित् परिशिष्टं योग्यं भवेत् |

I had compiled specialties of different days of a year. It would be better to put that compilation in an Annex.

ज्योतिर्विज्ञानम् – ४

कालगणनायै सौरपद्धतिः वा चान्द्रपद्धतिः प्रयुज्यते | Timekeeping systems are solar or lunar.

सौरपद्धत्यां दिनारंभः मध्यरात्रौ भवति | मध्यरात्रिवेलायाः वैज्ञानिकं निश्चितीकरणं तु प्रायः अशक्यमेव | मध्याह्नसमयस्य निश्चितीकरणं कतिचित्तु वैज्ञानिकं कस्यापि वस्तोः छायायाः अवलोकनेन | तथापि कथं भवेत् मध्यरात्रिवेलायाः वैज्ञानिकं निश्चितीकरणम् ? In solar timekeeping new day begins at midnight, which has no scientific definition. Noon time can be decided by observing shadow of any object. How can one decide the time of midnight ?

भारतीयां चान्द्रपद्धत्यां दिनारंभः सूर्योदये भवति यः सर्वैरनुभूयते दृश्यते च | In Indian lunar timekeeping day starts at sunrise, which is seen and experienced by everybody.

सौरपद्धत्यां कस्मिन् मासे कतिदिनानि तस्यापि न किमपि विज्ञानम् | In solar timekeeping, there is no scientific basis by which one can say that certain month should have so many days.

भारतीयां चान्द्रपद्धत्यां प्रत्येकस्मिन् मासे द्वे पक्षे, शुक्लपक्षः कृष्णपक्षश्च | शुक्लपक्षे प्रतिपदातः पूर्णिमापर्यन्ताः पञ्चदश तिथयः | कृष्णपक्षेऽपि प्रतिपदातः अमावस्यापर्यन्ताः पञ्चदश तिथयः | प्रत्येका तिथिरिति चन्द्रस्य कला | एतेषां सर्वेषां प्रत्यक्षं दर्शनं शक्यम् | In Indian lunar timekeeping there are two fortnights in each month. In the first fortnight moon waxes from its first phase to full moon. In the second fortnight the moon wanes from its phase of little less than full moon day to no moon day. All these phenomena can be seen and experienced.

 

तिथीनां कल्पनाचित्रम् तिथीनां कल्पनाचित्रम्

सौरपद्धत्यां मासानां नाम्नामपि न किमपि विज्ञानम् | Names of months in solar system have no scientific basis.

भारतीयां चान्द्रपद्धत्यां मासानां नामानि नक्षत्रैः सह संबद्धानि | मासनामसु अपि विज्ञानमेव | In Indian lunar system, names of months are associated with names of constellations. So there is scientific basis even in names of months.

चैत्रमासस्य नाम्नि चित्रानक्षत्रस्य उल्लेखः, वैशाखमासस्य नाम्नि विशाखानक्षत्रस्य उल्लेखः, ज्येष्ठमासस्य नाम्नि ज्येष्ठानक्षत्रस्य उल्लेखः, आषाढमासस्य नाम्नि आषाढानक्षत्रस्य उल्लेखः, श्रावणमासस्य नाम्नि श्रवणनक्षत्रस्य उल्लेखः, भाद्रपदमासस्य नाम्नि पूर्वाभाद्रपदानक्षत्रस्य उल्लेखः, अश्विनमासस्य नाम्नि अश्विनीनक्षत्रस्य उल्लेखः, कार्तिकमासस्य नाम्नि कृत्तिकानक्षत्रस्य उल्लेखः, मार्गशीर्षमासस्य नाम्नि मृगनक्षत्रस्य उल्लेखः, पौषमासस्य नाम्नि पुष्यनक्षत्रस्य उल्लेखः, माघमासस्य नाम्नि मघानक्षत्रस्य उल्लेखः | तथापि फाल्गुनमासस्य नाम्नि न कस्यापि नक्षत्रस्य उल्लेखः | अयं प्रायः कश्चिदपवादः |

(Note – This paragraph is not translated into English.)

तथाप्यस्त्यत्र किञ्चित् कुतूहलम् | यदि वर्षारंभः सूर्यस्य मेषराशिप्रवेशे मेषराश्यां तु अश्विनी-भरणी-कृत्तिका-नक्षत्राणां चरणानि | तेन कथं ननु मासस्य नाम चैत्रमासः इति ? ज्ञायते यत् चैत्रमासे पूर्णिमायां चन्द्रः चित्रानक्षत्रे, अतः मासस्य नाम चैत्रमासः इति | But there is some curiosity. If New Year begins when Sun enters the zodiac Aries, this zodiac sign has 9 quarters from those of constellations अश्विनी, भरणी and कृत्तिका. How come then the name of the month is चैत्र ? I am told that in चैत्र-month, on the full moon day, the moon is in constellation चित्रा.

एवं तु भारते चान्द्रमासस्य द्वे पद्धती | एका नवेन्द्वारंभा वा अमान्ता वा शुक्लादि, अन्या पूर्णिमान्ता | There are two kinds of Lunar months followed in India – one beginning with the New Moon (i.e. shuklAdi system or ending with no moon, hence also called as the amAnta system) and the other, Full Moon-ending (covering one Full Moon to the next) called the PurnimAnta system.

उपरि सर्वत्र मया “भारतीयां चान्द्रपद्धत्यां”-इति उल्लेखः कृतः, यतः अरबस्थाने वा इस्लामधर्मीयाणामपि चान्द्रपद्धतिरेव | I have mentioned above the phrase “Indian lunar” system, since in Arabic regions or among followers of Islam also, the system is lunar.

भारतीयां चान्द्रपद्धत्यां वर्षारंभः सूर्यस्य मेषराशिप्रवेशे भवति | वर्षं संवत् इत्यपि कथ्यते विशेषतः विक्रमराजानुसार्यां कालगणनायाम् | विक्रमसंवतः वर्षारंभः कार्तिकमासारंभे भवति | In Indian lunar system New Year begins when Sun enters the Aries zodiac sign. A year is also called as संवत्, especially by people who started counting of years owing regards to King Vikram. New year of विक्रमसंवत् begins with the beginning of month of कार्तिक.

विक्रमसंवतः संख्या प्रायः ख्रिस्ताब्दात् षट्पञ्चाशत्तावदधिका | Counting of विक्रमसंवत् is approximately 56 years older than the AD counting of Christian era.

यः वर्षारंभः सूर्यस्य मेषराशिप्रवेशे तथा चैत्रमासारंभे भवति, तद्वर्षं शकेत्यपि कथ्यते | महाराष्ट्रे शकसंख्या प्रायः शालिवाहननृपानुसारी | सा ख्रिस्ताब्दात् प्रायः अष्टसप्ततितावन्न्यूना | A year which begins with entry of sun in Aries zodiac sign or begins with the beginning of the month of चैत्र, is also called as शक. In महाराष्ट्र, count of शक-years started owing regards to King शालिवाहन. This count is some 78 years less than the AD counting of Christian era.

अरबस्थाने या चान्द्रपद्धतिः तस्यां वर्षं हिजरीति नाम्ना उच्यते | हिजरी-वर्षारंभः प्रायः विक्रमसंवद्वर्षारंभसमानः एव | तथापि हिजरी-वर्षसंख्या ख्रिस्ताब्दात् नवसप्तत्यधिकपञ्चशत-(579)-तावन्न्यूना | A year in the lunar system in Arabic regions is called as हिजरी-year. हिजरी-New Year begins almost simultaneous with विक्रमसंवत्. However the count of हिजरी years is approximately 579 years more recent than the AD counting of Christian era.

भारतीयां चान्द्रपद्धत्यां केवलं तिथयः चन्द्रमवलोक्य गण्यन्ते, In the Indian lunar system only the तिथि-s are based on the observation of the moon.

दिवसः तु एकस्मात् सूर्योदयात् अन्यतमसूर्योदयपर्यन्तः, वर्षमपि सूर्यस्य एकस्मात् मेषराशिप्रवेशादारभ्य अन्यतममेषराशिप्रवेशपर्यन्तमेव | One day is however from one sunrise to the next sunrise. Count of one year is also from one entry of sun into Aries zodiac to the next.

चन्द्रः पृथिवीं परतः तस्य एकं परिभ्रमणं सप्तविंशतिपरतः द्वित्रिंशद्दिवसशतांशेषु (27.32 days) संप्राप्नोति | The Moon completes its orbit around the Earth in approximately 27.32 days (a sidereal month)

एकस्मान्नवेन्दुतः अन्यतमनवेन्दुपर्यन्तः त्रिंशत्तिथीनां कालः चान्द्रमासः | सः त्रिंशद्दिवसानां नैव | Time from one new moon to the next, across thirty phases is the lunar month. One lunar month does not become 30 days long.

तेन चन्द्रस्य त्रिंशत्तिथयः सप्तविंशतिपरतः द्वित्रिंशद्दिवसशतांशेषु (27.32 days = 27.32 * 24 = 655.68 hours) संपद्यन्ते | एका तिथिः 655.68 / 30 = 21.856 hours एतावति समये एव | Thus the 30 phases of the moon are completed in 655.68 hours, hence each phase has a duration of 21.865 hours.

उदाहरणार्थम् – यद्यपि सूर्योदयसमये एकादशी तिथिः भवति, परन्तु सूर्योदयस्य पश्चात् 24 – 21.856 = 2.144 hours एतावतः समयस्य पूर्वमेव द्वादशी तिथिः आरभते, तर्हि अन्यस्मिन् सूर्योदये तु त्रयोदशी तिथिरेव भवेत् | For example, even if at time of sunrise the moon has its eleventh phase, but if the twelfth phase begins in less than 2.144 hours after sunrise, at the time of next sunrise, it will be the thirteenth phase only.

पञ्चाङ्गे अमुकस्य दिवसस्य सैव तिथिः निर्दिश्यते, यस्याः सूर्योदयसमये गणनं भवति | In the ephemeris only that phase is mentioned as the phase of the day, which is phase of the moon at sunrise.

एकस्मिन् सौरमासे, त्रिंशत् सूर्योदयेषु कासामपि तिथीनां उल्लेखः नैव भवेत् | ताः तिथयः क्षयतिथयः | उपरिनिर्दिष्टे उदाहरणे द्वादशी तिथिः क्षयतिथिः | So, during one solar month of 30 sunrises there would be no mention in the ephemeris about some phases. Such phases are called as क्षयतिथि-s.

यद्यपि उपरि लिखितं, यत् “एका तिथिः 655.68 / 30 = 21.856 hours एतावति समये एव”, सर्वाः तिथयः सदैव न समानाः | अस्ति  http://web4me.co.in/?author=1&lang=nl&paged=2&pg=1, इत्यत्र उक्तं यत् तिथीनां कालावधयः एकोनविंशतितः चतुस्त्रिंशत्तावताम् घटीनां एवं विभिन्नाः भवन्ति | Although it was mentioned above that one तिथि becomes 655.68 / 30 = 21.856 hours on an average, as mentioned at http://web4me.co.in/?author=1&lang=nl&paged=2&pg=1, duration of all तिथि-s is not same. It varies from 19 hours to 24 hours.

त्रिंशत्तिथीनां द्वादशावृत्तिभिः चान्द्रवर्षं भवति | Twelve cycles of 30 तिथि-s becomes one lunar year.

सौरवर्षस्य गणने तु पृथिव्याः सूर्यं परितः एकस्य परिभ्रमणस्य कालस्यैव विचारः | अत्याधुनिकविज्ञानानुसारेण सः समयः 365.256363004 days एतावान् | Solar year considers one year as the time taken by earth to do one revolution around the sun. As per modern science one solar year is of 365.256363004 days.

इदमपि उक्तं  http://web4me.co.in/?author=1&lang=nl&paged=2&pg=1, इत्यत्र, यत् चान्द्रवर्षं सौरवर्षतः ११ दिवसैः ऊनं भवति | It is also mentioned at this link, that lunar year is shorter than solar year by about 11 days,

चान्द्रवर्षगणनायां प्रत्येकस्मिन् तृतीये वर्षे अधिकमासोऽपि गण्यते | The lunar system also considers an extra month during every third year.

एवं चान्द्रवर्षत्रयं सौरवर्षत्रयेण कतितमं समं भवति | By this a triplet of lunar years becomes fairly equivalent to a triplet of solar years.

कालगणनयोः सौरचान्द्रपद्धत्योः एतेन विवरणेन स्पष्टं यत् कस्मिन्नपि सौरवर्षानुसारिणे दिनाङ्के चान्द्रवर्षानुसारी का तिथिः, कः पक्षः, कः मासः, किं संवत्सरम् एतत्सर्वं केनचित् क्लिष्टेन गणितेनैव साध्यम् | From the above discussion of the lunar and solar methods of timekeeping, it should be clear that, on what date of solar calendar, what will be the तिथि, पक्ष, मास, and संवत्सर of lunar calendar can be derived only by some complex calculation.

तथापि पञ्चाङ्गकर्तारः जानन्ति तद्गणितम् | However, people who prepare ephemeris are well-versed with that mathematics.

प्रथमं तु पञ्चाङ्गमिति किम् ? कानि पञ्चाङ्गस्य पञ्च अङ्गानि ? कथं तेषां ज्योतिर्विज्ञाने उपयोजनम् ? तदध्ययनम् अग्रिमे भागे | First of all, what is an ephemeris ? which five details does it detail ? what is the relevance of the five details in ज्योतिर्विज्ञान ? Study of these shall be the next.

-o-O-o-

 

ज्योतिर्विज्ञानम् – ३

 

कुण्डल्याः चतुष्कोणात्मका आकृतिः काचित् सुलभा | भवन्त्यस्यां द्वादश विभागाः ये कर्णरेखाभ्यां च भुजानां मध्यबिन्दून्श्च संधयद्भिः रेखाभिश्च प्राप्यन्ते | आकृतिः निम्नमिव |

One simple style of a कुण्डली is rectangular with twelve divisions obtained from joining the diagonals and the mid-points of all sides.

केचन जनाः कुण्डलीमेव जन्मपत्रीमिति जानन्ति | तत्तु असाधु |

Some people regard कुण्डली itself as the horoscope. That is not correct.

यथा पूर्वस्मिन् लेखे प्रस्तुतं, जन्मपत्र्यां तु एकषष्टितावन्ति विवरणानि | कुण्डली तु काचिद्विशिष्टा आकृतिरेव |

As mentioned in the previous article, horoscope may have as many as 61 details. Whereas, कुण्डली is a specific diagram.

 

कुण्डली

यथा दृश्यते एव अस्यां आकृत्यां द्वादश विभागाः |

As can be seen the diagram has twelve divisions.

प्रत्येकः विभागः स्थानं वा भावः इति ज्ञायते |

Each division is called as स्थान (place or position) or भाव (aspect of life).

द्वादशभावानां स्थानानि दृढं निश्चितानि | अतः तेषां क्रमसंख्याः कुण्डल्यां नैव लिख्यन्ते |

The places of the twelve aspects are well-defined. So, the numbers of different aspects are not written in the diagram.

तथापि कस्य स्थानस्य अभ्यसनेन जीवस्य चरितस्य कः भावः पठनीयः तस्य ज्ञानं कुण्डल्यभ्यसने प्राथमिकम् |

However which aspect of life is to be read by study of which place in the diagram becomes the first step of study of कुण्डली.

 

द्वादशभावानां क्रमः ईदृशः The sequence of twelve aspects is as follows –

 

(१) तनु Body or Physique (२) धन Wealth (३) सहज Brother (४) सुहृद् Friends (५) सुत Children

(६) रिपु Enemies (७) जाया Spouse (८) निधन Death (९) धर्म righteousness (१०) कर्म Activity

(११) आय Income (१२) व्यय Expenditure

 

एते द्वादश भावाः प्रमुखाः | These twelve aspects are, rather, the main categories.

तथापि प्रत्येकः भावः तेन सम्बन्धितान् अनेकान् अन्यान् भावानपि निर्दिशति | However each category connotes many other related aspects.

तद्विवरणं यथावकाशं अनन्तरम् | We shall come to that detail in due course.

 

प्रथमं तु ज्योतिर्विज्ञानस्य मूलमिति यत् खगोलविज्ञानं तस्मिन्नेव मम दृढा रुचिः | My great interest is in the astronomical (scientific) basis of astrology.

 

पूर्वस्मिन् लेखे वंशीधर-पाण्डे-महोदयेन प्रस्तुते जन्मपत्र्याः विधाने आसन् विवरणानि निम्नमिव

In the format for 61-spaces horoscope by Shri.वंशीधर पाण्डे, as presented in the previous article, there were following 9 mentioned –

 

(१९) ——- राशिस्थिते श्रीसूर्ये (२०) ——- राशिस्थिते चन्द्रे (२१) ——- राशिस्थिते भौमे (२२) ——- राशिस्थिते बुधे (२३) ——- राशिस्थिते गुरौ (२४) ——- राशिस्थिते शुक्रे (२५) ——- राशिस्थिते शनौ (२६) ——- राशिस्थिते राहौ (२७) ——- राशिस्थिते केतौ

 

(19) The zodiac sign of Sun (20) Zodiac sign of Moon (21) Zodiac sign of Mars (22) Zodiac sign of Mercury (23) Zodiac sign of Jupiter (24) Zodiac sign of Venus (25) Zodiac sign of Saturn (26) Zodiac sign of राहू (27) Zodiac sign of केतु.

 

जीवस्य जन्मसमये यदि कोऽपि तस्मात् जन्मस्थानात् आकाशं पश्यति तदा नभसि कः ग्रहः कस्यां राश्यां दृश्यमानः भवेत् तच्चित्रमेव कुण्डली |

कुण्डली is basically that diagram which shows which planet will be seen in which zodiac sign, if someone were to look at the sky at the time of birth from the place of birth,

एवं तु कुण्डलीति नभसः चित्रम् !! So कुण्डली is a map of the sky !!

 

मननीयं यत् क्षितिजं आकाशस्य द्वे विभागे करोति |

Of course the horizon makes two parts of the sky.

तत्रापि प्रत्येकस्मिन् विभागे षट् उपविभागाः मननीयाः | One should consider six sub-divisions in each of the two broad divisions – above and below the horizon.

तेन क्षितिजस्य उपरि, प्रायः दृश्यमानाः षट् विभागाः | One should consider that there are six divisions of the sky above the horizon

क्षितिजस्य अधः, प्रायः अदृश्यमानाः षट् विभागाः | Likewise one should consider six divisions of the sky below the horizon.

कुलतः आकाशस्य द्वादश विभागाः मननीयाः | That makes total twelve divisions of the total sky.

प्रत्येकः विभागः राशिः इति कथ्यते | Each division is called as राशि i.e. zodiac sign.

प्रत्येकस्यां राश्यां अनेकाः तारकाः | There are many stars in each राशि, zodiac sign.

ताराङ्गणस्य अवलोकने ऋषिभिः कासामपि तारकाणां समूहान् दृष्ट्वा तत्र काश्चन आकृतयः दृष्टाः | The sages viewing the stars saw some figures formed by groups of stars.

ताभिः आकृतिभिरेव तारकासमूहानां वा राशीणां नामानि निश्चितानि | The zodiac signs were named by the figures seen when looking at  groups of stars.

राशयः द्वादश | Zodiac signs are twelve.

तालिका – १

(Rashi) राशी

(solar months)

Ritu ऋतु

(season)

English calendar

months

Zodiac sun sign
(१) मेष वसन्त (spring) March/April Aries
(२) वृषभ April/May Taurus
(३) मिथुन ग्रीष्म (summer) May/June Gemini
(४) कर्क June/July. Cancer
(५) सिंह वर्षा (monsoon) July/Aug. Leo
(६) कन्या Aug/Sept Virgo
(७) तुला शरद (autumn) Sept/Oct Libra
(८) वृश्चिक Oct/Nov Scorpius
(९) धनु हेमन्त (autumn-winter) Nov/Dec. Sagittarius
(१०) मकर Dec/Jan Capricornus
(११) कुंभ शिशिर (Winter-Spring) Jan/Feb Aquarius
(१२) मीन Feb/Mar. Pisces

 

प्रत्येकस्यां राश्यां ऋषिभिः कानिचन नक्षत्राण्यपि दृष्टानि | The sages also identified some constellations in each zodiac sign.

 

द्वादशराशिषु कुलतः सप्तविंशति (२७) नक्षत्राणि | There are 27 constellations in the twelve zodiac signs together.

 

ततः प्रत्येकस्मिन् नक्षत्रस्य चत्वारि चरणानि कल्पितानि | Thereafter the sages considered four quarters of each constellation.

 

तेन सप्तविंशति नक्षत्राणां अष्टाधिकशततावन्ति (१०८) चरणानि कुलतः | So total 108 quarters of 27 constellations.

 

प्रत्येकस्यां राश्यां नव नक्षत्रचरणानि | So, 9 constellation-quarters in each zodiac sign.

 

आकाशमण्डलस्य कुलतः षष्ट्यधिकत्रिशत (३६०) अंशाः | प्रत्येकस्याः राश्याः (३०) त्रिंशदंशाः | प्रत्येकस्य नक्षत्रस्य (३६०/२७ = १३.३३३) अंशाः । प्रत्येकस्य नक्षत्रचरणस्य १३.३३३/४ = ३.३३३३ अंशाः ।

 

यतः नक्षत्राणि राशिष्वेव, कस्यां राश्यां केषां नक्षत्राणां कति चरणानि तद्दृढं निश्चितम् निम्नमिव |

Since constellations are parts of zodiac signs, which zodiac sign contains how many quarters of which constellation has been defined as in the following table.

तालिका – २

क्रमाङ्कः राशिः Zodiac Sign राश्यां केषां नक्षत्राणां कति चरणानि
मेष Aries अश्विनी (४) भरणी (४) कृत्तिका (१)
वृषभ Taurus कृत्तिका (३) रोहिणी (४) मृग (२)
मिथुन Gemini मृग (२) आर्द्रा (४) पुनर्वसु (३)
कर्क Cancer पुनर्वसु (१) पुष्य (४) आश्लेषा (४)
सिंह Leo मघा (४) पूर्वा (४) उत्तरा (१)
कन्या Virgo उत्तरा (३) हस्त (४) चित्रा (२)
तुला Libra चित्रा (२) स्वाती (४) विशाखा (३)
वृश्चिक Scorpius विशाखा (१) अनुराधा (४) ज्येष्ठा (४)
धनु Sagittarius मूला (४) पूर्वाषाढा (४) उत्तराषाढा (१)
१० मकर Capricornus उत्तराषाढा (३) श्रवण (४) धनिष्ठा (२)
११ कुंभ Aquarius धनिष्ठा (२) शततारका (४) पूर्वाभाद्रपदा (३)
१२ मीन Pisces पूर्वाभाद्रपदा (१) उत्तराभाद्रपदा (४) रेवती (४)

 

उपरि निर्दिशितस्य कोष्टकस्यैव काचिद्वर्तुलाकृतिः निम्नमिव | Above table can as well be presented in a circular diagram as below. अस्याम् आकृत्यां एकतः सप्तविंशतिपर्यन्ताः क्रमाङ्काः नक्षत्राणाम् | The numbers 1 to 27 in this diagram are serial numbers of the 27 constellations. नक्षत्रक्रमाङ्कस्य सार्धं प्रत्येकस्य नक्षत्रस्य चतुर्णाम् चरणानां स्थितयोऽपि निर्दिष्टाः आकृत्याम् | Along side of the serial number of each constellation, positions of all four quarters of each constellation are also marked.

वर्तुलाकृतिः समीचीनतरा यतः नक्षत्राण्यपि भ्रमन्त्येव ! A circular diagram is always more appropriate, because constellations also revolve !!

Zodiac Circular

यद्यपि प्रथमायां तालिकायां का राशिः कस्मिन् सौरमासे कस्मिनृतौ एतदपि निर्दिष्टम्, तद्विवरणं चान्द्रमासानुरूपं न भवति, यतः चान्द्रमासेषु अधिकमासाः अपि भवन्ति | तथापि सूर्यस्य मेषराशिप्रवेशे एव वर्षप्रतिपदेति चैत्रमासस्य शुक्लप्रतिपदा तिथिः भवति | Although Table 1 indicates which zodiac sign relates to which solar month and which of the six seasons, such correspondence between zodiac sign and month of the year would not be always possible for lunar months, since lunar calendars often have an extra month. Having said that, it is nevertheless correct that first day of the  lunar year begins when sun enters the zodiac sign Aries.

 

सौरमासचान्द्रमासयोः उल्लेखेन भवति निर्देशः कालगणनापद्धतीनाम् | Mention of solar month and lunar month hint to different methods of Measurement of Time. तदभ्यसनम् अग्रिमे भागे | Study of this shall be the next.

 

-o-O-o-

 

ज्योतिर्विज्ञानम् – २

कस्यापि जीवस्य चरितं ज्ञातुं ज्योतिर्विद् जन्मपत्रीं पठति | का सा जन्मपत्री ? जन्मपत्र्यां कानि विवरणानि ?

An astrologer reads the biography of a living being by reading the horoscope. What is that horoscope ? What details are detailed in a horoscope ?

जन्मपत्र्याः किञ्चिद्विधानं मानसागरी*इत्यस्मिन् पुस्तके अस्ति विवृतं श्रीबुधमाधवरामात्मजेन वंशीधर-पाण्डे-महोदयेन निम्नमिव –

I came across some kind of a format for a horoscope in a book मानसागरी by वंशीधर-पाण्डे, son of माधवराम.

(*मानसागरी-पुस्तकस्य मुम्बै-स्थितेन श्रीवेङ्कटेश्वर-मुद्रणालयेन अक्टूबर् 2012-मध्ये प्रकाशिता एका प्रतिः कतिचित् पूर्वमेव प्राप्ता मया Only recently, I got a copy of the book, published by श्रीवेङ्कटेश्वर-मुद्रणालय, Mumbai in October 2012)

The format reads as below –

अथ …

श्रीमन्नृपविक्रमार्कराज्यात् (१) ——- संवत्सरे (२) ——- शाके करणगताब्दाधिकमासौ (३) ——– दिनाहर्गणाम् (४) ——- अयने (५) ——— गोलगते श्रीसूर्ये (६) ——- ऋतौ (७) ——— मासे (८) ——– पक्षे (९) ——— तिथौ (१०) ——– वासरे (११) –|– घटिपलां (१२) ——– नक्षत्रे (१३) –|– घटिपलां (१४) ——- करणे (१५) ——- अक्षवृत्ते (१६) —- रेखावृत्ते स्थिते (१७) —– जन्मस्थाने सूर्योदयात् (१८) –|– घटिपलां गते (१९) ——- राशिस्थिते श्रीसूर्ये (२०) ——- राशिस्थिते चन्द्रे (२१) ——- राशिस्थिते भौमे (२२) ——- राशिस्थिते बुधे (२३) ——- राशिस्थिते गुरौ (२४) ——- राशिस्थिते शुक्रे (२५) ——- राशिस्थिते शनौ (२६) ——- राशिस्थिते राहौ (२७) ——- राशिस्थिते केतौ

वा

(२८) ———- राशिनवांशे (२९) ———- लग्नाधिपतौ (३०) ———— राश्यधिपतौ

एवं पुण्यतिथौ

पञ्चाङ्गशुद्धौ शुभग्रहनिरीक्षितकल्याणवेलायां

तात्कालिक (३१) ———- लग्नोदये संक्रान्तिगतांश (३२) –|– घटिपले अयनांशाः (३३) –|– मिश्रप्रमाण (३४) –|– घटिपले दिनार्धप्रमाण (३५) –|– घटिपले अक्षरनिशार्धप्रमाण (३६) –|– घटिपले अक्षरदिनप्रमाण (३७) –|– घटिपले रात्रिप्रमाण (३८) –|– घटिपले सम्मीलने अहोरात्रिप्रमाण (३९) –|– घटिपले रविभोग्यलङ्कोदयाद्गत (४०) –|– घटिपले उन्नत (४१) –|– घटिपले सूर्यपुरुषाकारनक्षत्रं (४२) ——- पतितम् |

 

तत्र कैलासगिरिशिखरे उमामहेश्वरसंवादे विंशोत्तरीदशाप्रमाणेन आदौ (४३) —— दशामध्ये जन्म (४४) ——- संध्यायां (४५) —– यामकेषु वंशोद्भवगङ्गानीरपवित्रोपमां (४६) ——- अन्वये (४७) ——– गोत्रे (४८) ——– पुत्रे (४९) ——– गृहे (५०) ——– नाम्नी भार्या पुत्ररत्नम् (कन्यारत्नम्) अजीजनत् |

 

अत्र होराशास्त्रप्रमाणेन (५१) —— नक्षत्रे (५२) —— चरणे (५३) —— अक्षरे (५४) —— स्वरे (५५) —— योनौ (५६) —– नाड्याम् (५७) —— गणे (५८) —– वर्णे (५९) —— वर्गे (६०) ——— युञ्जायां तस्य (तस्याः) चिरञ्जीव- (६१) ——— नाम प्रतिष्ठितम् |

 

स (सा) च दीर्घायुर्भवतु |

 

श्रीमता वंशीधर-पाण्डे-महोदयेन निर्दिष्टे अस्मिन् विधाने सन्ति एकषष्टि-तावन्ति रिक्तस्थानानि |

In this format by Shri. Vamshidhar Pande, there are 61 blank spaces.

there are 61 blank spaces.

  • एतेषु रिक्तस्थानेषु जन्मदिनाङ्केन प्राप्यन्ते विवरणानि एकतः दशपर्यन्तानि (१-१०)|
  • Details 1 to 10 relate to Date of Birth
  • जन्मस्थानेन प्राप्यन्ते पञ्चदश-षोडश-सप्तदश-तमानि (१५, १६, १७)|
  • Details 15, 16, 17 relate to Place of Birth
  • एकादशतः चतुर्दश-पर्यन्तानि (११-१४) चत्वारि विवरणानि पञ्चाङ्गात् प्रापणीयानि |
  • Details 11 to 14 are to be obtained from an ephemeris
  • अष्टादशे (१८) विवरणे तु जन्मसमय एव निर्दिष्टः |
  • Detail 18 refers to Time of Birth
  • एकोनविंशतितः सप्तविंशतितावत्सु विवरणेषु जन्मदिने जन्मसमये च जन्मस्थानात् दर्शनीये अदर्शनीये आकाशे च ग्रहाणां राशीणां च याः स्थितयः तान्येव विवरणानि |
  • Details 19 to 27 relate to the celestial positions of planets, and zodiac signs on the date and at the time and place of birth
  • अष्टविंशतितः द्विचत्वारिंशत्तावत्सु जन्मदिने जन्मसमये च जन्मस्थानात् दर्शनीये अदर्शनीये आकाशे च ग्रहाणां राशीणां च याः स्थितयः तासां अन्यः विधिः |
  • Details 28 to 42 seem to be optional methodology of detailing the celestial positions of planets, and zodiac signs on the date and at the time and place of birth
  • त्रिचत्वारिंशत्तः पञ्चाशत्तावत्सु तु पित्रोः वंशकुटुम्बस्य विवरणानि |
  • Details 43 to 50 relate to the parents and family.
  • एकपञ्चाशत्तः एकषष्टितावत्सु नामकरणदिनस्य वेलायाश्च विवरणानि |
  • Details 51 to 61 relate to the date and time when the being was given a name by which it would be known.

एकोनविंशतितः त्रिंशत्तमानि (१९-३०) विवरणानि प्राप्तुं पञ्चाङ्गस्य आधारेण कानिचिद्गणितानि आवश्यकानि | Details 19 to 30 need some calculations to be done by using guidelines usually obtained in an ephemeris.

कस्मिन् दिने कः ग्रहः कस्यां राश्यां एतद्विधं यद्विवरणं पञ्चाङ्गे प्राप्यते, तत्तु पञ्चाङ्गकर्तृणा अध्याहृते स्थाने एव योग्यम् | Details are given in ephemeris about which planets are in which zodiac sign. But the details are valid only for the place of reference presumed by the author of the ephemeris.

अन्यस्मिन् स्थाने ये आदेशाः भवन्ति, ते गणितेन गणनीयाः |  One needs to do calculations to find the positions of planets and zodiac signs as relevant to another place such as the place of birth.

ज्ञायते यत्तद्विधं गणितं कर्तुं अवकहडाचक्रस्य उपयोगः | प्रायः अवकहडाचक्रमपि पञ्चाङ्गे एव प्राप्यते | I understand that the calculations would use अवकहडाचक्र, which is also usually obtained in the ephemeris.

 

एकोनविंशतितः त्रिंशत्तमानि (१९-३०) विवरणानि प्रायः कयाचित् आकृत्यापि प्रस्तुतीक्रियन्ते | सा आकृतिः कुण्डलीत्यभिधीयते | Details 19 to 30 are often presented in a diagram, which is known as कुण्डली

कुण्डल्याः नैकैव पद्धतिः |There is not just one type of कुण्डली-diagram

ज्योतिर्विज्ञाने कुण्डलीविज्ञानमिति किञ्चिद्विशिष्टम् | Constructing and reading the कुण्डली becomes another special knowledge-section of the Second division of ज्योतिर्विज्ञानम्

तस्य विचारः अग्रिमे भागे | We shall study this next.

-o-O-o-

ज्योतिर्विज्ञानम् – १

विचारयन्नस्मि को भेदो खगोलविज्ञानज्योतिर्विज्ञानयोः ?

I have been thinking, “What is the difference between Astronomy and Astrology ? Actually it comes to mind that Astrology is not the correct translation of  ज्योतिर्विज्ञानम्

मन्येऽहं यत् खगोलविज्ञानम् तु ज्योतिर्विज्ञानस्य मूलम् | I think astronomy is the basic scientific base of ज्योतिर्विज्ञानम्. Rather if one should think that there are two broad divisions of ज्योतिर्विज्ञानम्, then astronomy or खगोलविज्ञानम् is the first division and astrology is the second division.

 

जानीमः खगोलविज्ञाने In Astronomy one does study

  1. के ग्रहाः सूर्यमालिकायाम् – the planets in the solar system
  2. काः राशयः – the zodiacal signs
  3. कानि नक्षत्राणि – what are the constellations
  4. भूगोलस्य कस्मिन् स्थाने कस्मिन् समये के ग्रहाः, काः राशयः, कानि नक्षत्राणि, दृश्यमाणानि आकाशे – which planets, constellations and zodiacal signs can be sighted in the sky from a given place on earth at a given time. Rather, instead of saying “can be sighted”, it would be more appropriate to say, “would be visible and/or present in the visible part of the sky”.
  5. कदा भवन्ति ग्रहणानि ? When do eclipses happen ?
    1. कथं भवन्ति ग्रहणानि ? How do eclipses happen ?
    2. कुत्र कुत्र दृश्यन्ते वा न दृश्यन्ते तानि ? from which places on earth can the eclipses be seen
    3. कथं दृश्यन्ते – खग्रासाणि खण्डग्रासाणि वा ? How in what form or pattern would the eclipses be seen, partial or complete ?

 

एतत् खगोलविज्ञानमेव मूलम् मत्त्वा के प्रभावाः एतेषां सर्वेषां ज्योतीनां प्राणिमात्राणां जीवने एतद्विधः अभ्यासः ज्योतिर्विज्ञानस्य अन्यः विचारः | अतः ज्योतिर्विज्ञानं ज्ञातुं खगोलविज्ञानस्य अभ्यासः अत्यावश्यकः | Considering these astronomical details, in the second division of ज्योतिर्विज्ञानम्, one would study the effect of astronomical aspects on the living beings. This is the astrological aspect.

 

केऽपि तु पृच्छन्ति किं सत्येनैव भवति प्रभावः सर्वेषां ज्योतीनां प्राणिमात्राणां जीवने ? सर्वे ग्रहाः नक्षत्राणि च कतिदूरं वर्तन्ते ? कथं शक्यः तेषां प्रभावः ? Some may question the validity of such effect or influence. They would first argue, the planets and constellations are so far away from the earth. How can they influence living beings on earth ?

 

मननीयं तथापि यत् खगोले ग्रहाः विनाधारमेव भ्रमन्ति | कथं तच्छक्यं खलु ? ज्योतिर्विज्ञाने मन्यते विद्वद्भिः यत् अर्कस्य अंशवः तस्य बाहवः | सः अंशुभिः एव भ्रमन्तः ग्रहान् यथायोग्यं धारयति पालयति च | यद्येवं तर्हि किं न भवति प्रभावः सर्वेषां ज्योतीनां प्राणिमात्राणां जीवने ? However one should bear in mind that all planets of the solar system rotate and revolve without any support anywhere, just floating in the space. Astrological masters contend that rays of the sun are akin to its arms. It is with these arms that the sun provides the hold on all planets, that too in such manner that there is hold, yet the planets can rotate and revolve. If this is right, all planets and constellations can as well be exercising an influence on living beings on earth.

 

प्राणिमात्राणां जीवने सर्वेषां ज्योतीनां प्रभावः कथं कथं भवति एतद्विषये ज्योतिर्विद्भिः कतिपयानि अनुमानान्यपि सिद्धानि | तेषामभ्यसनेन प्रायः योतिर्विज्जानाति किं किं भूतं भूतकाले, किं चलति वर्तमानकाले, किं किं भवेत् भविष्यत्काले इति | सः त्रिकालज्ञानी भवति | Astrological masters have also derived conclusions (sort of patterns of probability of the effects or influences of the planets and constellations. An astrological master who can apply these deductions would read events in the past, the present and the future. He has the ability to read across all the expanse of Time, the fourth dimension

 

एतावत्सु ज्योतिर्वित्सु प्रायः भृगुमहर्षिः बहुमतः | दृश्यतां श्रीमद्भगवद्गीतायाः दशमे अध्याये उक्तं भगवता महर्षीणां भृगुरहमिति | भृगुसंहिता तु ज्योतिर्विद्भ्यः महत्त्वपूर्णः ग्रन्थः | Among such Astrological masters, भृगुमहर्षिः seems to be the most eminent. In Tenth chapter of gItA, Bhagawan as the doyen among Rishis, Krishna connotes himself to be bhRugu-maharshi, भृगुसंहिता attributed to भृगुमहर्षिः is the most valuable reference work for all students of astronomy and astrology.

 

 

-o-O-o-