ज्योतिर्विज्ञानम् – ३

 

कुण्डल्याः चतुष्कोणात्मका आकृतिः काचित् सुलभा | भवन्त्यस्यां द्वादश विभागाः ये कर्णरेखाभ्यां च भुजानां मध्यबिन्दून्श्च संधयद्भिः रेखाभिश्च प्राप्यन्ते | आकृतिः निम्नमिव |

One simple style of a कुण्डली is rectangular with twelve divisions obtained from joining the diagonals and the mid-points of all sides.

केचन जनाः कुण्डलीमेव जन्मपत्रीमिति जानन्ति | तत्तु असाधु |

Some people regard कुण्डली itself as the horoscope. That is not correct.

यथा पूर्वस्मिन् लेखे प्रस्तुतं, जन्मपत्र्यां तु एकषष्टितावन्ति विवरणानि | कुण्डली तु काचिद्विशिष्टा आकृतिरेव |

As mentioned in the previous article, horoscope may have as many as 61 details. Whereas, कुण्डली is a specific diagram.

 

कुण्डली

यथा दृश्यते एव अस्यां आकृत्यां द्वादश विभागाः |

As can be seen the diagram has twelve divisions.

प्रत्येकः विभागः स्थानं वा भावः इति ज्ञायते |

Each division is called as स्थान (place or position) or भाव (aspect of life).

द्वादशभावानां स्थानानि दृढं निश्चितानि | अतः तेषां क्रमसंख्याः कुण्डल्यां नैव लिख्यन्ते |

The places of the twelve aspects are well-defined. So, the numbers of different aspects are not written in the diagram.

तथापि कस्य स्थानस्य अभ्यसनेन जीवस्य चरितस्य कः भावः पठनीयः तस्य ज्ञानं कुण्डल्यभ्यसने प्राथमिकम् |

However which aspect of life is to be read by study of which place in the diagram becomes the first step of study of कुण्डली.

 

द्वादशभावानां क्रमः ईदृशः The sequence of twelve aspects is as follows –

 

(१) तनु Body or Physique (२) धन Wealth (३) सहज Brother (४) सुहृद् Friends (५) सुत Children

(६) रिपु Enemies (७) जाया Spouse (८) निधन Death (९) धर्म righteousness (१०) कर्म Activity

(११) आय Income (१२) व्यय Expenditure

 

एते द्वादश भावाः प्रमुखाः | These twelve aspects are, rather, the main categories.

तथापि प्रत्येकः भावः तेन सम्बन्धितान् अनेकान् अन्यान् भावानपि निर्दिशति | However each category connotes many other related aspects.

तद्विवरणं यथावकाशं अनन्तरम् | We shall come to that detail in due course.

 

प्रथमं तु ज्योतिर्विज्ञानस्य मूलमिति यत् खगोलविज्ञानं तस्मिन्नेव मम दृढा रुचिः | My great interest is in the astronomical (scientific) basis of astrology.

 

पूर्वस्मिन् लेखे वंशीधर-पाण्डे-महोदयेन प्रस्तुते जन्मपत्र्याः विधाने आसन् विवरणानि निम्नमिव

In the format for 61-spaces horoscope by Shri.वंशीधर पाण्डे, as presented in the previous article, there were following 9 mentioned –

 

(१९) ——- राशिस्थिते श्रीसूर्ये (२०) ——- राशिस्थिते चन्द्रे (२१) ——- राशिस्थिते भौमे (२२) ——- राशिस्थिते बुधे (२३) ——- राशिस्थिते गुरौ (२४) ——- राशिस्थिते शुक्रे (२५) ——- राशिस्थिते शनौ (२६) ——- राशिस्थिते राहौ (२७) ——- राशिस्थिते केतौ

 

(19) The zodiac sign of Sun (20) Zodiac sign of Moon (21) Zodiac sign of Mars (22) Zodiac sign of Mercury (23) Zodiac sign of Jupiter (24) Zodiac sign of Venus (25) Zodiac sign of Saturn (26) Zodiac sign of राहू (27) Zodiac sign of केतु.

 

जीवस्य जन्मसमये यदि कोऽपि तस्मात् जन्मस्थानात् आकाशं पश्यति तदा नभसि कः ग्रहः कस्यां राश्यां दृश्यमानः भवेत् तच्चित्रमेव कुण्डली |

कुण्डली is basically that diagram which shows which planet will be seen in which zodiac sign, if someone were to look at the sky at the time of birth from the place of birth,

एवं तु कुण्डलीति नभसः चित्रम् !! So कुण्डली is a map of the sky !!

 

मननीयं यत् क्षितिजं आकाशस्य द्वे विभागे करोति |

Of course the horizon makes two parts of the sky.

तत्रापि प्रत्येकस्मिन् विभागे षट् उपविभागाः मननीयाः | One should consider six sub-divisions in each of the two broad divisions – above and below the horizon.

तेन क्षितिजस्य उपरि, प्रायः दृश्यमानाः षट् विभागाः | One should consider that there are six divisions of the sky above the horizon

क्षितिजस्य अधः, प्रायः अदृश्यमानाः षट् विभागाः | Likewise one should consider six divisions of the sky below the horizon.

कुलतः आकाशस्य द्वादश विभागाः मननीयाः | That makes total twelve divisions of the total sky.

प्रत्येकः विभागः राशिः इति कथ्यते | Each division is called as राशि i.e. zodiac sign.

प्रत्येकस्यां राश्यां अनेकाः तारकाः | There are many stars in each राशि, zodiac sign.

ताराङ्गणस्य अवलोकने ऋषिभिः कासामपि तारकाणां समूहान् दृष्ट्वा तत्र काश्चन आकृतयः दृष्टाः | The sages viewing the stars saw some figures formed by groups of stars.

ताभिः आकृतिभिरेव तारकासमूहानां वा राशीणां नामानि निश्चितानि | The zodiac signs were named by the figures seen when looking at  groups of stars.

राशयः द्वादश | Zodiac signs are twelve.

तालिका – १

(Rashi) राशी

(solar months)

Ritu ऋतु

(season)

English calendar

months

Zodiac sun sign
(१) मेष वसन्त (spring) March/April Aries
(२) वृषभ April/May Taurus
(३) मिथुन ग्रीष्म (summer) May/June Gemini
(४) कर्क June/July. Cancer
(५) सिंह वर्षा (monsoon) July/Aug. Leo
(६) कन्या Aug/Sept Virgo
(७) तुला शरद (autumn) Sept/Oct Libra
(८) वृश्चिक Oct/Nov Scorpius
(९) धनु हेमन्त (autumn-winter) Nov/Dec. Sagittarius
(१०) मकर Dec/Jan Capricornus
(११) कुंभ शिशिर (Winter-Spring) Jan/Feb Aquarius
(१२) मीन Feb/Mar. Pisces

 

प्रत्येकस्यां राश्यां ऋषिभिः कानिचन नक्षत्राण्यपि दृष्टानि | The sages also identified some constellations in each zodiac sign.

 

द्वादशराशिषु कुलतः सप्तविंशति (२७) नक्षत्राणि | There are 27 constellations in the twelve zodiac signs together.

 

ततः प्रत्येकस्मिन् नक्षत्रस्य चत्वारि चरणानि कल्पितानि | Thereafter the sages considered four quarters of each constellation.

 

तेन सप्तविंशति नक्षत्राणां अष्टाधिकशततावन्ति (१०८) चरणानि कुलतः | So total 108 quarters of 27 constellations.

 

प्रत्येकस्यां राश्यां नव नक्षत्रचरणानि | So, 9 constellation-quarters in each zodiac sign.

 

आकाशमण्डलस्य कुलतः षष्ट्यधिकत्रिशत (३६०) अंशाः | प्रत्येकस्याः राश्याः (३०) त्रिंशदंशाः | प्रत्येकस्य नक्षत्रस्य (३६०/२७ = १३.३३३) अंशाः । प्रत्येकस्य नक्षत्रचरणस्य १३.३३३/४ = ३.३३३३ अंशाः ।

 

यतः नक्षत्राणि राशिष्वेव, कस्यां राश्यां केषां नक्षत्राणां कति चरणानि तद्दृढं निश्चितम् निम्नमिव |

Since constellations are parts of zodiac signs, which zodiac sign contains how many quarters of which constellation has been defined as in the following table.

तालिका – २

क्रमाङ्कः राशिः Zodiac Sign राश्यां केषां नक्षत्राणां कति चरणानि
मेष Aries अश्विनी (४) भरणी (४) कृत्तिका (१)
वृषभ Taurus कृत्तिका (३) रोहिणी (४) मृग (२)
मिथुन Gemini मृग (२) आर्द्रा (४) पुनर्वसु (३)
कर्क Cancer पुनर्वसु (१) पुष्य (४) आश्लेषा (४)
सिंह Leo मघा (४) पूर्वा (४) उत्तरा (१)
कन्या Virgo उत्तरा (३) हस्त (४) चित्रा (२)
तुला Libra चित्रा (२) स्वाती (४) विशाखा (३)
वृश्चिक Scorpius विशाखा (१) अनुराधा (४) ज्येष्ठा (४)
धनु Sagittarius मूला (४) पूर्वाषाढा (४) उत्तराषाढा (१)
१० मकर Capricornus उत्तराषाढा (३) श्रवण (४) धनिष्ठा (२)
११ कुंभ Aquarius धनिष्ठा (२) शततारका (४) पूर्वाभाद्रपदा (३)
१२ मीन Pisces पूर्वाभाद्रपदा (१) उत्तराभाद्रपदा (४) रेवती (४)

 

उपरि निर्दिशितस्य कोष्टकस्यैव काचिद्वर्तुलाकृतिः निम्नमिव | Above table can as well be presented in a circular diagram as below. अस्याम् आकृत्यां एकतः सप्तविंशतिपर्यन्ताः क्रमाङ्काः नक्षत्राणाम् | The numbers 1 to 27 in this diagram are serial numbers of the 27 constellations. नक्षत्रक्रमाङ्कस्य सार्धं प्रत्येकस्य नक्षत्रस्य चतुर्णाम् चरणानां स्थितयोऽपि निर्दिष्टाः आकृत्याम् | Along side of the serial number of each constellation, positions of all four quarters of each constellation are also marked.

वर्तुलाकृतिः समीचीनतरा यतः नक्षत्राण्यपि भ्रमन्त्येव ! A circular diagram is always more appropriate, because constellations also revolve !!

Zodiac Circular

यद्यपि प्रथमायां तालिकायां का राशिः कस्मिन् सौरमासे कस्मिनृतौ एतदपि निर्दिष्टम्, तद्विवरणं चान्द्रमासानुरूपं न भवति, यतः चान्द्रमासेषु अधिकमासाः अपि भवन्ति | तथापि सूर्यस्य मेषराशिप्रवेशे एव वर्षप्रतिपदेति चैत्रमासस्य शुक्लप्रतिपदा तिथिः भवति | Although Table 1 indicates which zodiac sign relates to which solar month and which of the six seasons, such correspondence between zodiac sign and month of the year would not be always possible for lunar months, since lunar calendars often have an extra month. Having said that, it is nevertheless correct that first day of the  lunar year begins when sun enters the zodiac sign Aries.

 

सौरमासचान्द्रमासयोः उल्लेखेन भवति निर्देशः कालगणनापद्धतीनाम् | Mention of solar month and lunar month hint to different methods of Measurement of Time. तदभ्यसनम् अग्रिमे भागे | Study of this shall be the next.

 

-o-O-o-