पदार्थविज्ञानम् – (१)

आङ्ग्लभाषायां यत् Physics इति कथ्यते तस्य पारिभाषिकी संज्ञा “पदार्थविज्ञानम्” इति विद्यालये पठता मया ज्ञाता प्रायः १९५०-६०-क्रिस्ताब्दसमये |

 

तथापि अधुना तु विचारयन्नस्मि का समीचीना संज्ञा Material Sciences & Technology अस्य विषयस्य इति | तथा विचारयतः मम मनस्यागच्छति अत्रापि पदार्थविज्ञानम् इत्येव संज्ञा समीचीना |

 

प्रायः Physics इत्यस्य विषयस्य “भौतिकी” इति समीचीना पारिभाषिकी संज्ञा |

 

पदार्थाः वस्तूनि वा बहुषु रूपेषु दृश्यन्ते प्राप्यन्ते च, यथा (१) घनाः (Solids), (२) gels जेल्-रूपाः, पारदः (Mercury), (३) द्रवाः, (४) वायवः, (५) Plasma प्लाझ्माः (अणीयाः) |

 

ऋषिभिः पञ्चमहाभूतानां पञ्चतत्त्वानां वा विज्ञानं निर्दिष्टम् | (१) पृथिवी घनरूपा (२) आपः द्रवरूपाः (३) वायुः वायुरूपः (४) तेजः अणीयम् (५) आकाशतत्त्वम् इति |

 

दृश्यताम् उक्तिः “कविं पुराणम् अनुशासितारम् | अणोरणीयान् समनुस्मरेद्यः | सर्वस्य धातारमचिन्त्यरूपम् | आदित्यवर्णं तमसः परस्तात् || (गीतायां ८-९) | अणीयं आदित्यवर्णमिति निर्दिष्टमत्र | अस्याम् उक्तौ निर्दिष्टम् अस्याः अणीययाः स्थित्याः रूपं तु अचिन्त्यम् | तथापि तद्रूपम् भगवता स्वयं चिन्तितम्, मनुजैः चिन्तनीयमित्यपि निर्दिष्टम् !!!

यद्यपि एतद्रूपमचिन्त्यम्, अदृश्यमानं च, व्यवहारे विद्युल्लेपनविधौ (Electroplating) अस्यैव प्रयोगः भवति |

आकृतिः (१) वस्तुरूपाणि वस्तुस्थितयः वा (States of Matter)

states of matter

तापनेन घनवस्तूनां द्रावणं भवति | द्रव्याणां तापनेन तेषां वायुरूपं भवति | वायोः तापने पदार्थः  प्लाझ्मा-स्थितिं प्राप्नोति |  प्लाझ्मा-स्थितौ अणोः अणीयाः भवन्ति |

आकाशतत्त्वम् इति निर्गुणनिराकारस्थितिः | अन्यासु चतुर्षु स्थितिषु कश्चिदाकारः किञ्चित् सगुणत्वम् भवति | आकाशतत्त्वम् इति निर्गुणनिराकारस्थितिः |

भूतानां वा तत्त्वानां वा एतद्विधे वर्गीकरणे पदार्थविज्ञानस्यैव विचारः दृश्यते | पृथिवी-आप-वायु-तेज-आकाश-इति क्रमेण पदार्थानां आकारधारणक्षमता क्षीयते |

 

सर्वेषु पदार्थेषु किञ्चिदेकं मूलद्रव्यम् (element) भवति वा केषामपि मूलद्रव्याणां मिश्रणं वा संयुगं वा भवति | यद्वातं वयं श्वसनक्रियायाम् गृह्णीमः, तस्मिन् वायौ प्रायः नत्रः नवसप्ततिशतांश (79 %)-तावद्भवति, प्राणवायुश्च एकविंशतिशतांश (21 %)-तावद्भवति |

 

दृश्यतां गणपत्यथर्वशीर्षे “संहिता सन्धिः | सैषा गणेशविद्या |” रसायनशास्त्रमिति गणेशविद्या खलु ?!!

 

पदार्थे यानि मूलद्रव्याणि तदनुसारेण तस्य रसायनं विभिन्नम् | कठोपनिषतः ऋषिणा उक्तमस्ति – वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव …”

 

अद्यतावज्ज्ञातानां सर्वेषां मूलद्रव्याणां वृत्तयः आवर्तनकोष्टके (Periodic Table) साधु ज्ञायन्ते | तद्विधं कोष्टकम् द्वितीयायाम् आकृतौ दृश्यताम् –

 

आकृतिः (२) – मूलद्रव्याणां आवर्तनकोष्टकम् (Periodic Table)

Periodic Table

 

घनपदार्थाः धात्वङ्गाः (metallic) वा अधात्वङ्गाः (non-metallic) वा |

 

द्रव्याणि प्रायः आम्लानि, क्षाराणि वा उदासीनि | दृश्यताम् “कट्वम्ललवणात्यूष्णतीक्ष्णरुक्षविदाहिनः | आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥भगवद्गीता १७.९॥

 

अन्नसेवने ये पदार्थाः उपयुज्यन्ते, तेषां गुणाः –

  1. रस्याः स्निग्धाः स्थिराः हृद्याः (॥भगवद्गीता १७.८॥) इति सात्विकाः |
  2. कट्वम्ललवणात्यूष्णतीक्ष्णरुक्षविदाहिनः (॥भगवद्गीता १७.९॥) इति राजसाः |
  3. यातयामं गतरसं पूति पर्युषितं चामेध्यम् (॥भगवद्गीता १७.१०॥) इति तामसाः |

 

पदार्थानां परीक्षणस्य प्रायः शब्द-रूप-रस-गन्ध-स्पर्श-इति पञ्च विधयः |

 

रसपरीक्षणं तु रसायनशास्त्रस्य (science of chemistry) अङ्गभूतः विषयः खलु ?

 

आम्लैः वा क्षारैः वा धात्वङ्गानां पदार्थानां कलङ्कनं (corrosion) भवति | कलङ्कने धातुक्षयः भवति | अतः कलङ्कनावरोधनाय (corrosion-prevention or corrosion-protection) विविधानि तन्त्राणि प्रयुज्यन्ते |

 

कलङ्कनावरोधाय विशिष्टाः धातुसंयुगाः अपि प्रयुज्यन्ते | सामान्ये वातावरणे निष्कलङ्कलोहं (stainless steel) प्रायः कलङ्कितं न भवति | सागरिके क्षारयुते वातावरणे प्रायः ताम्रयुतानि धातुसंयुगानि (Copper-based alloys) प्रयुज्यन्ते |

 

वर्षाऋतौ बहूनां वस्तूनां कलङ्कनस्य संभावना वर्धते | अतः कारयानानां वा अन्यानां बहूनां यन्त्राणामपि कलङ्कनावरोधकद्रव्यैः लेपनं क्रियते | सौधानां रङ्गनं न केवलं सौन्दर्यीकरणं कतिपयं क्षयावरोधनायापि |

 

पूजाविधौ भवति विधिः “विलेपनार्थे चन्दनं समर्पयामि” इति | तद्विलेपनमपि प्रायः प्रियदेवतायाः कान्तेः कलङ्कनावरोधनाय इत्यया कल्पनया |

 

कठिनानां वस्तूनां संघर्षणेनापि (abrasion) धातुक्षयः भवति |

 

धातुक्षयस्य स्खलनम् (erosion) इत्यपि अन्यत् कारणम् | जलप्रपातेन अधस्स्थिताः पाषाणाः स्खलिताः भवन्ति | सैव स्खलनप्रक्रिया |

 

संघर्षणं स्खलनं वा धात्वङ्गानां पदार्थानामेव भवतीति न | एते भौतिके परिणामे न, अपितु रासायनीये | कलङ्कनं प्रायः रसायनी प्रक्रिया |

 

Material Sciences & Technology इति पदार्थविज्ञानं प्रायः बह्वङ्गं बहूपयोगि च |

 

-o-O-o-